भारतकोश
संग्रह पर लौटें

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

॥ पञ्चत्रिंशोऽध्यायः ॥

ऋभुः –

निदाघ शृणु गुह्यं मे सद्यो मुक्तिप्रदं नृणाम् । आत्मैव नान्यदेवेदं परमात्माहमक्षतः ॥ ३५.१॥

अहमेव परं ब्रह्म सच्चिदानन्दविग्रहः । अहमस्मि महानस्मि शिवोऽस्मि परमोऽस्म्यहम् ॥ ३५.२॥

अदृश्यं परमं ब्रह्म नान्यदस्ति स्वभावतः । सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५.३॥

शान्तं ब्रह्म परं चास्मि सर्वदा नित्यनिर्मलः । सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५.४॥

सर्वसङ्कल्पमुक्तोऽस्मि सर्वसन्तोषवर्जितः । कालकर्मजगद्द्वैतद्रष्टृदर्शनविग्रहः ॥ ३५.५॥

आनन्दोऽस्मि सदानन्दकेवलो जगतां प्रियम् । समरूपोऽस्मि नित्योऽस्मि भूतभव्यमजो जयः ॥ ३५.६॥

चिन्मात्रोऽस्मि सदा भुक्तो जीवो बन्धो न विद्यते । श्रवणं षड्विधं लिङ्गं नैवास्ति जगदीदृशम् ॥ ३५.७॥

चित्तसंसारहीनोऽस्मि चिन्मात्रत्वं जगत् सदा । चित्तमेव हितं देह अविचारः परो रिपुः ॥ ३५.८॥

अविचारो जगद्दुःखमविचारो महद्भयम् । सद्योऽस्मि सर्वदा तृप्तः परिपूर्णः परो महान् ॥ ३५.९॥

नित्यशुद्धोऽस्मि बुद्धोऽस्मि चिदाकाशोऽस्मि चेतनः । आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.१०॥

सर्वदोषविहीनोऽस्मि सर्वत्र विततोऽस्म्यहम् । वाचातीतस्वरूपोऽस्मि परमात्माऽहमक्षतः ॥ ३५.११॥

चित्रातीतं परं द्वन्द्वं सन्तोषः समभावनम् । अन्तर्बहिरनाद्यन्तं सर्वभेदविनिर्णयम् ॥ ३५.१२॥

अहङ्कारं बलं सर्वं कामं क्रोधं परिग्रहम् । ब्रह्मेन्द्रोविष्णुर्वरुणो भावाभावविनिश्चयः ॥ ३५.१३॥

जीवसत्ता जगत्सत्ता मायासत्ता न किंचन ।
गुरुशिष्यादिभेदं च कार्याकार्यविनिश्चयः ॥ ३५.१४॥

त्वं ब्रह्मासीति वक्ता च अहं ब्रह्मास्मि संभवः ।
सर्ववेदान्तविज्ञानं सर्वाम्नायविचारणं ॥ ३५.१५॥

इदं पदार्थसद्भावमहं रूपेण संभवं ।
वेदवेदान्तसिद्धान्तजगद्भेदं न विद्यते ॥ ३५.१६॥

सर्वं ब्रह्म न संदेहः सर्वमित्येव नास्ति हि ।
केवलं ब्रह्मशान्तात्मा अहमेव निरन्तरं ॥ ३५.१७॥

शुभाशुभविभेदं च दोषादोषं च मे न हि ।
चित्तसत्ता जगत्सत्ता बुद्धिवृत्तिविजृंभणं ॥ ३५.१८॥

ब्रह्मैव सर्वदा नान्यत् सत्यं सत्यं निजं पदं ।
आत्माकारमिदं द्वैतं मिथ्यैव न परः पुमान् ॥ ३५.१९॥

सच्चिदानन्दमात्रोऽहं सर्वं केवलमव्ययं ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ३५.२०॥

मनो जगदहं भेदं चित्तवृत्तिजगद्द्वयं ।
सर्वानन्दमहानन्दमात्मानन्दमनन्तकं ॥ ३५.२१॥

अत्यन्तस्वल्पमल्पं वा प्रपञ्चं नास्ति किंचन ।
प्रपञ्चमिति शब्दो वा स्मरणं वा न विद्यते ॥ ३५.२२॥

अन्तरस्थप्रपञ्चं वा क्वचिन्नास्ति क्वचिद्द्वहिः ।
यत् किंचिदेवं तूष्णीं वा यच्च किंचित् सदा क्व वा ॥ ३५.२३॥

येन केन यदा किंचिद्यस्य कस्य न किंचन ।
शुद्धं मलिनरूपं वा ब्रह्मवाक्यमबोधकं ॥ ३५.२४॥

ईदृशं तादृशं वेति न किंचित् वक्तुमर्हति ।
ब्रह्मैव सर्वं सततं ब्रह्मैव सकलं मनः ॥ ३५.२५॥

आनन्दं परमानन्दं नित्यानन्दं सदाऽद्वयं ।
चिन्मात्रमेव सततं नास्ति नास्ति परोऽस्म्यहं ॥ ३५.२६॥

प्रपञ्चं सर्वदा नास्ति प्रपञ्चं चित्रमेव च ।
चित्तमेव हि संसारं नान्यत् संसारमेव हि ॥ ३५.२७॥

मन एव हि संसारो देहोऽहमिति रूपकं ।
संकल्पमेव संसारं तन्नाशेऽसा विनश्यति ॥ ३५.२८॥

संकल्पमेव जननं तन्नाशेऽसा विनश्यति ।
संकल्पमेव दारिद्र्यं तन्नाशेऽसा विनश्यति ॥ ३५.२९॥

संकल्पमेव मननं तन्नाशेऽसा विनश्यति ।
आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३०॥

नित्यमात्ममयं बोधमहमेव सदा महान् ।
आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३१॥

इत्येवं भावयेन्नित्यं क्षिप्रं मुक्तो भविष्यति ।
त्वमेव ब्रह्मरूपोऽसि त्वमेव ब्रह्मविग्रहः ॥ ३५.३२॥

एवं च परमानन्दं ध्यात्वा ध्यात्वा सुखीभव ।
सुखमात्रं जगत् सर्वं प्रियमात्रं प्रपञ्चकम् ॥ ३५.३३॥

जडमात्रमयं लोकं ब्रह्ममात्रमयं सदा ।
ब्रह्मैव नान्यदेवेदं परमात्माऽहमव्ययः ॥ ३५.३४॥

एक एव सदा एष एक एव निरन्तरम् ।
एक एव परं ब्रह्म एक एव चिदव्ययः ॥ ३५.३५॥

एक एव गुणातीत एक एव सुखावहः ।
एक एव महानात्मा एक एव निरन्तरम् ॥ ३५.३६॥

एक एव चिदाकार एक एवात्मनिर्णयः ।
ब्रह्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३७॥

परमात्माऽहमन्यन्न परमानन्दमन्दिरम् ।
इत्येवं भावयन्नित्यं सदा चिन्मय एव हि ॥ ३५.३८॥

सूतः –

विरिञ्चवञ्चनाततप्रपञ्चपञ्चबाणभित्
सुकाञ्चनाद्रिधारिणं कुलुञ्चनां पतिं भजे ।
अकिञ्चनेऽपि सिञ्चके जलेन लिङ्गमस्तके
विमुञ्चति क्षणादघं न किञ्चिदत्र शिष्यते ॥ ३५.३९॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मभावनोपदेशप्रकरणं नाम पञ्चत्रिंशोऽध्यायः ॥

॥ षट्त्रिंशोऽध्यायः ॥

ऋभुः -

शृणु वक्ष्यामि विप्रेन्द्र सर्वं ब्रह्मैव निर्णयम् ।
यस्य श्रवणमात्रेण सद्यो मुक्तिमवाप्नुयात् ॥ ३६.१॥

इदमेव सदा नास्ति ह्यहमेव हि केवलम् ।
आत्मैव सर्वदा नास्ति आत्मैव सुखलक्षणम् ॥ ३६.२॥

आत्मैव परमं तत्त्वमात्मैव जगतां गणः ।
आत्मैव गगनाकारमात्मैव च निरन्तरम् ॥ ३६.३॥

आत्मैव सत्यं ब्रह्मैव आत्मैव गुरुलक्षणम् ।
आत्मैव चिन्मयं नित्यमात्मैवाक्षरमव्ययम् ॥ ३६.४॥

आत्मैव सिद्धरूपं वा आत्मैवात्मा न संशयः ।
आत्मैवजगदाकारं आत्मैवात्मा स्वयं स्वयं ॥ ३६.५॥

आत्मैव शांतिकलनमात्मैव मनसा वियत् ।
आत्मैव सर्वं यत् किञ्चिदात्मैव परमं पदम् ॥ ३६.६॥

आत्मैव भुवनाकारमात्मैव प्रियमव्ययम् ।
आत्मैवान्यन्न च क्वापि आत्मैवान्यं मनोमयम् ॥ ३६.७॥

आत्मैव सर्वविज्ञानमात्मैव परमं धनम् ।
आत्मैव भूतरूपं वा आत्मैव भ्रमणं महत् ॥ ३६.८॥

आत्मैव नित्यशुद्धं वा आत्मैव गुरुरात्मनः ।
आत्मैव ह्यात्मनः शिष्य आत्मैव लयमात्मनि ॥ ३६.९॥

आत्मैव ह्यात्मनो ध्यानमात्मैव गतिरात्मनः ।
आत्मैव ह्यात्मनो होम आत्मैव ह्यात्मनो जपः ॥ ३६.१०॥

आत्मैव तृप्तिरात्मैव आत्मनोऽन्यन्न किञ्चन ।
आत्मैव ह्यात्मनो मूलमात्मैव ह्यात्मनो व्रतम् ॥ ३६.११॥

आत्मज्ञानं व्रतं नित्यमात्मज्ञानं परं सुखम् ।
आत्मज्ञानं परानन्दमात्मज्ञानं परायणम् ॥ ३६.१२॥

आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महाव्रतम् ।
आत्मज्ञानं स्वयं वेद्यमात्मज्ञानं महाधनम् ॥ ३६.१३॥

आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महत् सुखम् । आत्मज्ञानं महोनात्मा आत्मज्ञानं जनास्पदम् ॥ ३६.१४॥

आत्मज्ञानं महातीर्थमात्मज्ञानं जयप्रदम् । आत्मज्ञानं परं ब्रह्म आत्मज्ञानं चराचरम् ॥ ३६.१५॥

आत्मज्ञानं परं शास्त्रमात्मज्ञानमनूपमम् । आत्मज्ञानं परो योग आत्मज्ञानं परा गतिः ॥ ३६.१६॥

आत्मज्ञानं परं ब्रह्म इत्येवं दृढनिश्चयः । आत्मज्ञानं मनोनाशः आत्मज्ञानं परो गुरुः ॥ ३६.१७॥

आत्मज्ञानं चित्तनाशः आत्मज्ञानं विमुक्तिदम् । आत्मज्ञानं भयनाशमात्मज्ञानं सुखावहम् ॥ ३६.१८॥

आत्मज्ञानं महातेज आत्मज्ञानं महाशुभम् । आत्मज्ञानं सतां रूपमात्मज्ञानं सतां प्रियम् ॥ ३६.१९॥

आत्मज्ञानं सतां मोक्षमात्मज्ञानं विवेकजम् । आत्मज्ञानं परो धर्म आत्मज्ञानं सदा जपः ॥ ३६.२०॥

आत्मज्ञानस्य सदृशमात्मविज्ञानमेव हि । आत्मज्ञानेन सदृशं न भूतं न भविष्यति ॥ ३६.२१॥

आत्मज्ञानं परो मन्त्र आत्मज्ञानं परं तपः । आत्मज्ञानं हरिः साक्षादात्मज्ञानं शिवः परः ॥ ३६.२२॥

आत्मज्ञानं परो धाता आत्मज्ञानं स्वसंमतम् । आत्मज्ञानं स्वयं पुण्यमात्मज्ञानं विशोधनम् ॥ ३६.२३॥

आत्मज्ञानं महातीर्थमात्मज्ञानं शमादिकम् । आत्मज्ञानं प्रियं मन्त्रमात्मज्ञानं स्वपावनम् ॥ ३६.२४॥

आत्मज्ञानं च किन्नाम अहं ब्रह्मेति निश्चयः । अहं ब्रह्मेति विश्वासमात्मज्ञानं महोदयम् ॥ ३६.२५॥

अहं ब्रह्मास्मि नित्योऽस्मि सिद्धोऽस्मीति विभावनम् । आनन्दोऽहं परानन्दं शुद्धोऽहं नित्यमव्ययः ॥ ३६.२६॥

चिदाकाशस्वरूपोऽस्मि सच्चिदानन्दशाश्वतम् । निर्विकारोऽस्मि शान्तोऽहं सर्वतोऽहं निरन्तरः ॥ ३६.२७॥

सर्वदा सुखरूपोऽस्मि सर्वदोषविवर्जितः । सर्वसङ्कल्पहीनोऽस्मि सर्वदा स्वयमस्म्यहम् ॥ ३६.२८॥

सर्वं ब्रह्मेत्यनुभवं विना शब्दं पर स्वयं ।
कोट्यश्वमेधे यत् पुण्यं क्षणात् तत्पुण्यमाप्नुयात् ॥ ३६.२९॥

अहं ब्रह्मेति निश्चित्य मेरुदानफलं लभेत् ।
ब्रह्मैवाहमिति स्थित्वा सर्वभूदानमप्यणु ॥ ३६.३०॥

ब्रह्मैवाहमिति स्थित्वा कोटीशो दानमप्यणु ।
ब्रह्मैवाहमिति स्थित्वा सर्वानन्दं तृणायते ॥ ३६.३१॥

ब्रह्मैव सर्वमित्येव भावितस्य फलं स्वयं ।
ब्रह्मैवाहमिति स्थित्वा समानं ब्रह्म एव हि ॥ ३६.३२॥

तस्मात् स्वप्नेऽपि नित्यं च सर्वं संत्यज्य यत्नतः ।
अहं ब्रह्म न संदेहः अहमेव गतिर्मम ॥ ३६.३३॥

अहमेव सदा नान्यदहमेव सदा गुरुः ।
अहमेव परो ह्यात्मा अहमेव न चापरः ॥ ३६.३४॥

अहमेव गुरुः शिष्यः अहमेवेति निश्चिन ।
इदमित्येव निर्देशः परिच्छिन्नो जगन्न हि ॥ ३६.३५॥

न भूमिर्न जलं नाग्निर्न वायुर्न च खं तथा ।
सर्वं चैतन्यमात्रत्वात् नान्यत् किंचन विद्यते ॥ ३६.३६॥

इत्येवं भावनपरो देहमुक्तः सुखीभव ।
अहमात्मा इदं नास्ति सर्वं चैतन्यमात्रतः ॥ ३६.३७॥

अहमेव हि पूर्णात्मा आनन्दाब्धिरनामयः ।
इदमेव सदा नास्ति जडत्वादसदेव हि ।
इदं ब्रह्म सदा ब्रह्म इदं नेति सुखी भव ॥ ३६.३८॥

तुरङ्गशृङ्गसन्निभा श्रुतिपरोचना ???
विशेषकामवासना विनिश्चितात्मवृत्तितः ।
नराः सुरा मुनीश्वरा असङ्गसङ्गमप्युमा-
पतिं ??? न ते भजन्ति केचन ??? ॥ ३६.३९॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मभावनोपदेशप्रकरणं नाम षट्त्रिंशोऽध्यायः ॥

॥ सप्तत्रिंशोऽध्यायः ॥

ऋभुः -

निदाघ शृणु वक्ष्यामि रहस्यं परमद्भुतम् । श्लोकैकश्रवणेनैव सद्यो मोक्षमवाप्नुयात् ॥ ३७.१॥

इदं दृष्टं परं ब्रह्म दृश्यवद्भाति चित्ततः । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.२॥

इदमेव हि नास्त्येव अयमित्यपि नास्ति हि । एक एवाप्यणुरपि नास्ति नास्ति न संशयः ॥ ३७.३॥

व्यवहारमिदं क्वापि वार्तामात्रमपि क्व वा । बन्धरूपं बन्धवार्ता बन्धकार्यं परं च वा ॥ ३७.४॥

सन्मात्रकार्यं सन्मात्रमहं ब्रह्मेति निश्चयं । दुःखं सुखं वा बोधो वा साधकं साध्यनिर्णयः ॥ ३७.५॥

आत्मेति परमात्मेति जीवात्मेति पृथङ् न हि । देहोऽहमिति मूर्तोऽहं ज्ञानविज्ञानवानहम् ॥ ३७.६॥

कार्यकारणरूपोऽहमन्तःकरणकार्यकम् । एकमित्येकमात्रं वा नास्ति नास्तीति भावय ॥ ३७.७॥

सर्वसङ्कल्पमात्रेति सर्वं ब्रह्मेति वा जगत् । तत्त्वज्ञानं परं ब्रह्म ॐकारार्थं सुखं जपम् ॥ ३७.८॥

द्वैताद्वैतं सदाद्वैतं तथा मानावमानकम् । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.९॥

आत्मानन्दमहं ब्रह्म प्रज्ञानं ब्रह्म एव हि । इदं रूपमहं रूपं प्रियाप्रियविचारणम् ॥ ३७.१०॥

यद्यत् सम्भाव्यते लोके यद्यत् साधनकल्पनम् । यद्यन्तरहितं ब्रह्मभावनं चित्तनिर्वृतम् ॥ ३७.११॥

स्थूलदेहोऽहमेवात्र सूक्ष्मदेहोऽहमेव हि । बुद्धेर्भेदं मनोभेदं अहङ्कारं जडं च तत् ॥ ३७.१२॥

सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते । श्रवणं मननं चैव साक्षात्कारविचारणम् ॥ ३७.१३॥

आत्मैवाहं परं चैव नाहं मोहमयं स्वयं । ब्रह्मैव सर्वमेवेदं ब्रह्मैव परमं पदम् ॥ ३७.१४॥

ब्रह्मैव कारणं कार्यं ब्रह्मैव जगतां जयः । ब्रह्मैव सर्वं चैतन्यं ब्रह्मैव मनसायते ॥ ३७.१५॥

ब्रह्मैव जीववद्भाति ब्रह्मैव च हरीयते । ब्रह्मैव शिववद्भाति ब्रह्मैव प्रियमात्मनः ॥ ३७.१६॥

ब्रह्मैव शान्तिवद्भाति ब्रह्मणोऽन्यन्न किंचन । नाहं न चायं नैवान्यन्नोत्पन्नं न परात् परम् ॥ ३७.१७॥

न चेदं न च शास्त्रार्थं न मीमांसं न चोद्भवम् । न लक्षणं न वेदादि नापि चित्तं न मे मनः ॥ ३७.१८॥

न मे नायं नेदमिदं न बुद्धिनिश्चयं सदा । कदाचिदपि नास्त्येव सत्यं सत्यं न किंचन ॥ ३७.१९॥

नैकमात्रं न चायं वा नान्तरं न बहिर्न हि । ईषन्मात्रं च न द्वैतं न जन्यं न च दृश्य कम् ॥ ३७.२०॥

न भावनं न स्मरणं न विस्मरणमण्वपि । न कालदेशकलनं न संकल्पं न वेदनम् ॥ ३७.२१॥

न विज्ञानं न देहोऽहं न वेदोऽहं न संसृतिः । न मे दुःखं न मे मोक्षं न गतिश्च च दुर्गतिः ॥ ३७.२२॥

नात्मा नाहं न जीवोऽहं न कूटस्थो न जायते । न देहोऽहं न च श्रोत्रं न त्वगिन्द्रियदेवता ॥ ३७.२३॥

सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा । अखण्डाकाररूपत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२४॥

हुंकारास्यावकाशो वा हुंकारजननं च वा । नास्त्येव नास्ति नास्त्येव नास्ति नास्ति कदाचन ॥ ३७.२५॥

अन्यत् पदार्थमल्पं वा अन्यदेवान्यभाषणम् । आत्मनोऽन्यदसत्यं वा सत्यं वा भ्रान्तिरेव च ॥ ३७.२६॥

नास्त्येव नास्ति नास्त्येव नास्ति शब्दोऽपि नास्ति हि । सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२७॥

सर्वं ब्रह्म न सन्देहो ब्रह्मैवाहं न संशयः । वाक्यं च वाचकं सर्वं वक्ता च त्रिपुटीद्वयम् ॥ ३७.२८॥

ज्ञाता ज्ञानं ज्ञेयभेदं मातृमानमिति प्रियं । यद्यच्चास्तेषु निर्लीतं यद्यद्वेदेषु निश्चितं ॥ ३७.२९॥

परापरमतीतं च अतीतोऽहमवेदनं । गुरुर्गुरूपदेशश्च गुरुं वक्ष्ये न कस्यचित् ॥ ३७.३०॥

गुरुरूपा गुरुश्रद्धा सदा नास्ति गुरुः स्वयं । आत्मैव गुरुरात्मैव अन्याभावान्न संशयः ॥ ३७.३१॥

आत्मनः शुभमात्मैव अन्याभावान्न संशयः । आत्मनो मोहमात्मैव आत्मनोऽस्ति न किंचन ॥ ३७.३२॥

आत्मनः सुखमात्मैव अन्यन्नास्ति न संशयः । आत्मन्येवात्मनः शक्तिः आत्मन्येवात्मनः प्रियं ॥ ३७.३३॥

आत्मन्येवात्मनः स्नानं आत्मन्येवात्मनो रतिः । आत्मज्ञानं परं श्रेयः आत्मज्ञानं सुदुर्लभं ॥ ३७.३४॥

आत्मज्ञानं परं ब्रह्म आत्मज्ञानं सुखात् सुखं । आत्मज्ञानात् परं नास्ति आत्मज्ञानात् स्मृतिर्न हि ॥ ३७.३५॥

ब्रह्मैवात्मा न संदेहा आत्मैव ब्रह्मणः स्वयं । स्वयमेव हि सर्वत्र स्वयमेव हि चिन्मयः ॥ ३७.३६॥

स्वयमेव चिदाकाशः स्वयमेव निरंतरं । स्वयमेव च नानात्मा स्वयमेव च नापरः ॥ ३७.३७॥

स्वयमेव गुणातीतः स्वयमेव महत् सुखं । स्वयमेव हि शांतात्मा स्वयमेव हि निश्चलः ॥ ३७.३८॥

स्वयमेव चिदानंदः स्वयमेव महत्प्रभुः । स्वयमेव सदा साक्षी स्वयमेव सदाशिवः ॥ ३७.३९॥

स्वयमेव हरिः साक्षात् स्वयमेव प्रजापतिः । स्वयमेव परं ब्रह्म ब्रह्म एव स्वयं सदा ॥ ३७.४०॥

सर्वं ब्रह्म स्वयं ब्रह्म स्वयं ब्रह्म न संशयः । दृढनिश्चयमेव त्वं सर्वथा कुरु सर्वदा ॥ ३७.४१॥

विचारयन् स्वयं ब्रह्म ब्रह्ममात्रं स्वयं भवेत् । एतदेव परं ब्रह्म अहं ब्रह्मेति निश्चयः ॥ ३७.४२॥

एष एव परो मोक्ष अहं ब्रह्मेति निश्चयः । एष एव कृतार्थो हि एष एव सुखं सदा ॥ ३७.४३॥

एतदेव सदा ज्ञानं स्वयं ब्रह्म स्वयं महत् ।
अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ 37.44॥

अहं ब्रह्म एतदेव स्वभावं सततं निजं ।
अहं ब्रह्म एतदेव सदा नित्यं स्वयं सदा ॥ 37.45॥

अहं ब्रह्म एतदेव बन्धनाशं न संशयः ।
अहं ब्रह्म एतदेव सर्वसिद्धान्तनिश्चयं ॥ 37.46॥

एष वेदान्तसिद्धान्त अहं ब्रह्म न संशयः ।
सर्वोपनिषदार्थः सर्वानन्दमयं जगत् ॥ 37.47॥

महावाक्यस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।
साक्षाच्छिवस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ 37.48॥

नारायणस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।
चतुर्मुखस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ 37.49॥

ऋषीणां हृदयं ह्येतत् देवानामुपदेशकं ।
सर्वदेशिकसिद्धान्त अहं ब्रह्मेति निश्चयः ॥ 37.50॥

यच्च यावच्च भूतानां महोपदेश एव तत् ।
अहं ब्रह्म महोमोक्षं परं चैतदहं स्वयं ॥ 37.51॥

अहं चानुभवं चैतन्यहोगोष्यमिदं च तत् ।
अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ 37.52॥

महाप्रकाशमेवैतत् अहं ब्रह्म एव तत् ।
एतदेव महामन्त्रं एतदेव महोजपः ॥ 37.53॥

एतदेव महास्नानमहं ब्रह्मेति निश्चयः ।
एतदेव महातीर्थमहं ब्रह्मेति निश्चयः ॥ 37.54॥

एतदेव महागङ्गा अहं ब्रह्मेति निश्चयः ।
एष एव परो धर्म अहं ब्रह्मेति निश्चयः ॥ 37.55॥

एष एव महाकाश अहं ब्रह्मेति निश्चयः ।
एतदेव हि विज्ञानमहं ब्रह्मास्मि केवलं ।
सर्वसिद्धान्तमेवैतदहं ब्रह्मेति निश्चयः ॥ 37.56॥

सव्यासव्यतयाद्वयज्ञहृदया गोपोदहोर्द्यः प्रियः
पश्यन्त्यम्बुजमित्रमण्डलगतं शम्भुं हिरण्यात्मकं ।

सर्वत्र प्रसृतैः करैर्जगदिदं पुष्णाति मुष्णन् धनैः
क्षुब्धं चौषधिजालमम्बुनिकरैर्विश्वोत्थधूतं हरः ॥ ३७.५७॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वसिद्धान्तप्रकरणं नाम सप्तत्रिंशोऽध्यायः ॥

॥ अष्टात्रिंशोऽध्यायः ॥

ऋभुः –

वक्ष्ये अत्यद्भुतं व्यक्तं सच्चिदानन्दमात्रकम् । सर्वप्रपञ्चशून्यत्वं सर्वमात्मेति निश्चितम् ॥ ३८.१॥

आत्मरूपप्रपञ्चं वा आत्मरूपप्रपञ्चकम् । सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चितम् ॥ ३८.२॥

नित्यानुभवमानन्दं नित्यं ब्रह्मेति भावनम् । चित्तरूपप्रपञ्चं वा चित्तसंसारमेव वा ॥ ३८.३॥

इदमस्तीति सत्तात्मवाहमस्तीति वा जगत् । स्वान्तःकरणदोषं वा स्वान्तःकरणकार्यकम् ॥ ३८.४॥

स्वस्य जीवभ्रमः कश्चित् स्वस्य नाशं स्वजन्मना । ईश्वरः कश्चिदस्तीति जीवोऽहमिति वै जगत् ॥ ३८.५॥

माया सत्ता महो सत्ता चित्तसत्ता जगन्मयम् । यद्यच्छ दृश्यते शास्त्रैर्यद्यद्वेदे च भाषणम् ॥ ३८.६॥

एकमित्येव निर्देशं द्वैतमित्येव भाषणम् । शिवोऽस्मीति भ्रमः कश्चित् ब्रह्मास्मीति विभ्रमः ॥ ३८.७॥

विष्णुरस्मीति विभ्रान्तिर्जगदस्तीति विभ्रमः । ईषदस्तीति वा भेदं ईषदस्तीति वा द्वयम् ॥ ३८.८॥

सर्वमस्तीति नास्तीति सर्वं ब्रह्मेति निश्चयम् । आत्मध्यानप्रपञ्चं वा स्मरणादिप्रपञ्चकम् ॥ ३८.९॥

दुःखरूपप्रपञ्चं वा सुखरूपप्रपञ्चकम् । द्वैताद्वैतप्रपञ्चं वा सत्यासत्यप्रपञ्चकम् ॥ ३८.१०॥

जाग्रत्प्रपञ्चमेवापि तथा स्वप्नप्रपञ्चकम् । सुप्तिज्ञानप्रपञ्चं वा तुर्यज्ञानप्रपञ्चकम् ॥ ३८.११॥

वेदज्ञानप्रपञ्चं वा शास्त्रज्ञानप्रपञ्चकम् । पापबुद्धिप्रपञ्चं वा पुण्यभेदप्रपञ्चकम् ॥ ३८.१२॥

ज्ञानरूपप्रपञ्चं वा निर्गुणज्ञानप्रपञ्चकम् । गुणागूणप्रपञ्चं वा दोषादोषविनिर्णयम् ॥ ३८.१३॥

सत्यासत्यविचारं वा चराचरविचारणम् । एक आत्मेति सद्भावं मुख्य आत्मेति भावनम् ॥ ३८.१४ ॥

सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयम् । द्वैताद्वैतसमुद्भेदं नास्ति नास्तीति भाषणम् ॥ ३८.१५ ॥

असत्यं जगदेवेति सत्यं ब्रह्मेति निश्चयम् । कार्यरूपं कारणं च नानाभेदविजृम्भणम् ॥ ३८.१६ ॥

सर्वमन्त्रप्रदातारं दूरे दूरं तथा तथा । सर्वं संत्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.१७ ॥

मौनभावं मौनकार्यं मौनयोगं मनःप्रियम् । पञ्चाक्षरोपदेष्टारं तथा चाष्टाक्षरप्रदम् ॥ ३८.१८ ॥

यद्यद्वैतशास्त्रं यद्यद्वैदो गुरोऽपि वा । सर्वदा सर्वलोकेषु सर्वसङ्कल्पकल्पनम् ॥ ३८.१९ ॥

सर्ववाक्यप्रपञ्चं हि सर्वचित्तप्रपञ्चकम् । सर्वाकारविकल्पं च सर्वकारणकल्पनम् ॥ ३८.२० ॥

सर्वदोषप्रपञ्चं च सुखदुःखप्रपञ्चकम् । सहोदेयमुपादेयं ग्राह्यं त्याज्यं च भाषणम् ॥ ३८.२१ ॥

विचार्य जन्ममरणं वासनाचित्तरूपकम् । कामक्रोधं लोभमोहं सर्वडम्भं च हुंकृतिम् ॥ ३८.२२ ॥

त्रैलोक्यसम्भवं द्वैतं ब्रह्मेन्द्रवरुणादिकम् । ज्ञानेन्द्रियं च शब्दादि दिग्वाय्वर्कादिदैवतम् ॥ ३८.२३ ॥

कर्मेन्द्रियादिसद्भावं विषयं देवतागणम् । अन्तःकरणवृत्तिं च विषयं चाधिदैवतम् ॥ ३८.२४ ॥

चित्तवृत्तिं विभेदं च बुद्धिवृत्तिनिरूपणम् । मायामात्रमिदं द्वैतं सदसत्त्वादिनिर्णयम् ॥ ३८.२५ ॥

किञ्चिद् द्वैतं बहुद्वैतं जीवद्वैतं सदा ह्यसत् । जगदुत्पत्तिमोहं च गुरुशिष्यत्वनिर्णयम् ॥ ३८.२६ ॥

गोपनं तत्पदार्थस्य त्वम्पदार्थस्य मेलनम् । तथा चासिपदार्थस्य ऐक्यबुद्ध्यानुभावनम् ॥ ३८.२७ ॥

भेदेषु भेदाभेदं च नान्यत् किञ्चिच्च विद्यते । एतत् प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयः ॥ ३८.२८ ॥

सर्वं चैतन्यमात्रत्वात् केवलं ब्रह्म एव सः ।
आत्माकारमिदं सर्वमात्मनोऽन्यन्न किंचन ॥ ३८.२९॥

तुर्यातीतं ब्रह्मणोऽन्यत् सत्यासत्यं न विद्यते ।
सर्वं त्यक्त्वा तु सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३०॥

चित्तं कालं वस्तुभेदं संकल्पं भावनं स्वयं ।
सर्वं संत्यज्य सततं सर्वं ब्रह्मैव भावय ॥ ३८.३१॥

यद्यद्भेदपरं शास्त्रं यद्यद् भेदपरं मनः ।
सर्वं संत्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३२॥

मनः कल्पितकल्पं वा आत्मकल्पनविभ्रमं ।
अहंकारपरिच्छेदं देहोऽहं देहभावना ॥ ३८.३३॥

सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव ।
प्रपंचस्य च सद्भावं प्रपंचोद्भवमन्यकं ॥ ३८.३४॥

बंधसद्भावकलनं मोक्षसद्भावभाषणं ।
देवताभावसद्भावं देवपूजाविनिर्णयं ॥ ३८.३५॥

पंचाक्षरेति यद्द्वैतमष्टाक्षरस्य दैवतं ।
प्राणादिपंचकास्तित्वमुपप्राणादिपंचकं ॥ ३८.३६॥

पृथिवीभूतभेदं च गुणा यत् कुंठनादिकं ।
वेदांतशास्त्रसिद्धातं शैवागमनमेव च ॥ ३८.३७॥

लौकिकं वास्तवं दोषं प्रवृत्तिं च निवृत्तिकं ।
सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव ॥ ३८.३८॥

आत्मज्ञानसुखं ब्रह्म अनात्मज्ञानदूषणं ।
रेचकं पूरकं कुंभं षडाधारविशोधनं ॥ ३८.३९॥

द्वैतवृत्तिश्च देहोऽहं साक्षिवृत्तिश्चिदंशकं ।
अखंडाकारवृत्तिश्च अखंडाकारसंमतं ॥ ३८.४०॥

अनंतानुभवं चापि अहं ब्रह्मेति निश्चयं ।
उत्तमं मध्यमं चापि तथा चैवाधमाधमं ॥ ३८.४१॥

दूषणं भूषणं चैव सर्ववस्तुविनिंदनं ।
अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मैव तत्त्वतः ॥ ३८.४२॥

अहं ब्रह्मास्मि मुग्धोऽस्मि वृद्धोऽस्मि सदसत्परः ।
वैश्वानरो विराट् स्थूलप्रपंचमिति भावनं ॥ ३८.४३॥

आनन्दस्फूरणेनाहं परापरविवर्जितः ।
नित्यानन्दमयं ब्रह्म सच्चिदानन्दविग्रहः ॥ ३८.४४॥

दृग्रूपं दृश्यरूपं च महासत्तास्वरूपकं ।
कैवल्यं सर्वनिधनं सर्वभूतान्तरं गतम् ॥ ३८.४५॥

भूतभव्यं भविष्यच्च वर्तमानमसत् सदा ।
कालभावं देहभावं सत्यासत्यविनिर्णयम् ॥ ३८.४६॥

प्रज्ञानघन एवाहं शान्ताशान्तं निरञ्जनम् ।
प्रपञ्चवार्तास्मरणं द्वैताद्वैतविभावनम् ॥ ३८.४७॥

शिवागमसमाचारं वेदान्तश्रवणं पदम् ।
अहं ब्रह्मास्मि शुद्धोऽस्मि चिन्मात्रोऽस्मि सदाशिवः ॥ ३८.४८॥

सर्वं ब्रह्मेति सन्त्यज्य स्वात्मन्येव स्थिरो भव ।
अहं ब्रह्म न सन्देह इदं ब्रह्म न संशयः ॥ ३८.४९॥

स्थूलदेहं सूक्ष्मदेहं कारणं देहमेव च ।
एवं ज्ञातुं च सततं ब्रह्मैवेदं क्षणे क्षणे ॥ ३८.५०॥

शिवो ह्यात्मा शिवो जीवः शिवो ब्रह्म न संशयः ।
एतत् प्रकरणं यस्तु सकृद्वा सर्वदापि वा ॥ ३८.५१॥

पठेद्वा शृणुयाद्वापि स च मुक्तो न संशयः ।
निमिषं निमिषार्धं वा श्रुत्यैतद्ब्रह्मभार्भवेत् ॥ ३८.५२॥

लोकालोकजगत्स्थितिप्रविलयप्रोद्भावसत्तात्मिका
भीतिः शंकरनामरूपमसृदप्याकुर्वते केवलम् ।
सत्यासत्यनिरंकुशश्रुतिवचोवीचीभिराभृश्यते
यस्यैतत् सदितीव तत्त्ववचनैर्मीमांस्यतेऽयं शिवः ॥ ३८.५३॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपंचशून्यत्वप्रकरणं नाम अष्टात्रिंशोऽध्यायः ॥

॥ एकोनचत्वारिंशोऽध्यायः ॥

ऋभुः –

परं ब्रह्म प्रवक्ष्यामि निर्विकल्पं निरामयम् ।
तदेवाहं न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ ३९.१॥

चिन्मात्रममलं शान्तं सच्चिदानन्दविग्रहम् ।
आनन्दं परमानन्दं निर्विकल्पं निरञ्जनम् ॥ ३९.२॥

गुणातीतं जनातीतमवस्थातीतमव्ययम् ।
एवं भावय चैतन्यमहं ब्रह्मास्मि सोऽस्म्यहम् ॥ ३९.३॥

सर्वातीतःस्वरूपोऽस्मि सर्वशब्दार्थवर्जितः ।
सत्योऽहं सर्वहन्ताऽहं शुद्धोऽहं परमोऽस्म्यहम् ॥ ३९.४॥

अजोऽहं शान्तरूपोऽहं अशरीरोऽहमन्तरः ।
सर्वहीनोऽहमेवाहं स्वयमेव स्वयं महः ॥ ३९.५॥

आत्मैवाहं परात्माऽहं ब्रह्मैवाहं शिवोऽस्म्यहम् ।
चित्तहीनस्वरूपोऽहं बुद्धिहीनोऽहमस्म्यहम् ॥ ३९.६॥

व्यापकोऽहमहं साक्षी ब्रह्माहमिति निश्चयः ।
निष्प्रपञ्चगजारूढो निष्प्रपञ्चाश्ववाहनः ॥ ३९.७॥

निष्प्रपञ्चमहाराज्यो निष्प्रपञ्चायुधादिमान् ।
निष्प्रपञ्चमहावेदो निष्प्रपञ्चात्मभावनः ॥ ३९.८॥

निष्प्रपञ्चमहानिद्रो निष्प्रपञ्चस्वभावकः ।
निष्प्रपञ्चस्तु जीवात्मा निष्प्रपञ्चकलेवरः ॥ ३९.९॥

निष्प्रपञ्चपरिवारो निष्प्रपञ्चोत्सवो भवः ।
निष्प्रपञ्चस्तु कल्याणो निष्प्रपञ्चस्तु दर्पणः ॥ ३९.१०॥

निष्प्रपञ्चरथारूढो निष्प्रपञ्चविचारणम् ।
निष्प्रपञ्चगुहान्तःस्थो निष्प्रपञ्चप्रदीपकम् ॥ ३९.११॥

निष्प्रपञ्चप्रपूर्णात्मा निष्प्रपञ्चोऽरिमर्दनः ।
चित्तमेव प्रपञ्चो हि चित्तमेव जगत्त्रयम् ॥ ३९.१२॥

चित्तमेव महामोहश्चित्तमेव हि संसृतिः ।
चित्तमेव महापापं चित्तमेव हि पुण्यकम् ॥ ३९.१३॥

चित्तमेव महाबन्धश्चित्तमेव विमोक्षदम् ।
ब्रह्मभावनया चित्तं नाशमेति न संशयः ॥ ३९.१४॥

ब्रह्मभावनया दुःखं नाशमेति न संशयः ।
ब्रह्मभावनया द्वैतं नाशमेति न संशयः ॥ ३९.१५॥

ब्रह्मभावनया कामः नाशमेति न संशयः ।
ब्रह्मभावनया क्रोधः नाशमेति न संशयः ॥ ३९.१६॥

ब्रह्मभावनया लोभः नाशमेति न संशयः ।
ब्रह्मभावनया ग्रन्थिः नाशमेति न संशयः ॥ ३९.१७॥

ब्रह्मभावनया सर्वं ब्रह्मभावनया मदः ।
ब्रह्मभावनया पूजा नाशमेति न संशयः ॥ ३९.१८॥

ब्रह्मभावनया ध्यानं नाशमेति न संशयः ।
ब्रह्मभावनया स्नानं नाशमेति न संशयः ॥ ३९.१९॥

ब्रह्मभावनया मन्त्रो नाशमेति न संशयः ।
ब्रह्मभावनया पापं नाशमेति न संशयः ॥ ३९.२०॥

ब्रह्मभावनया पुण्यं नाशमेति न संशयः ।
ब्रह्मभावनया दोषो नाशमेति न संशयः ॥ ३९.२१॥

ब्रह्मभावनया भ्रान्तिः नाशमेति न संशयः ।
ब्रह्मभावनया दृश्यं नाशमेति न संशयः ॥ ३९.२२॥

ब्रह्मभावनया सङ्गो नाशमेति न संशयः ।
ब्रह्मभावनया तेजो नाशमेति न संशयः ॥ ३९.२३॥

ब्रह्मभावनया प्रज्ञा नाशमेति न संशयः ।
ब्रह्मभावनया सत्ता नाशमेति न संशयः ॥ ३९.२४॥

ब्रह्मभावनया भीतिः नाशमेति न संशयः ।
ब्रह्मभावनया वेदः नाशमेति न संशयः ॥ ३९.२५॥

ब्रह्मभावनया शास्त्रं नाशमेति न संशयः ।
ब्रह्मभावनया निद्रा नाशमेति न संशयः ॥ ३९.२६॥

ब्रह्मभावनया कर्म नाशमेति न संशयः ।
ब्रह्मभावनया तुर्यं नाशमेति न संशयः ॥ ३९.२७॥

ब्रह्मभावनया द्वन्द्वं नाशमेति न संशयः ।
ब्रह्मभावनया पृच्छेदहं ब्रह्मेति निश्चयम् ॥ ३९.२८॥

निश्चयं चापि संत्यज्य स्वरूपांतरासनम् । अहं ब्रह्म परं ब्रह्म चिद्ब्रह्म ब्रह्ममात्रकम् ॥ ३९.२९॥

ज्ञानमेव परं ब्रह्म ज्ञानमेव परं पदम् । दिवि ब्रह्म दिशो ब्रह्म मनो ब्रह्म अहं स्वयं ॥ ३९.३०॥

किंचिद्ब्रह्म ब्रह्म तत्त्वं तत्त्वं ब्रह्म तदेव हि । अजो ब्रह्म शुभं ब्रह्म आदिब्रह्म ब्रवीमि तम् ॥ ३९.३१॥

अहं ब्रह्म हविर्ब्रह्म कार्यब्रह्मा त्यहं सदा । नादो ब्रह्म नदं ब्रह्म तत्त्वं ब्रह्म च नित्यशः ॥ ३९.३२॥

एतद्ब्रह्म शिखा ब्रह्म तद्ब्रह्म ब्रह्म शाश्वतम् । निजं ब्रह्म स्वतो ब्रह्म नित्यं ब्रह्मा त्त्वमेव हि ॥ ३९.३३॥

सुखं ब्रह्म प्रियं ब्रह्म मित्रं ब्रह्म सदामृतम् । गुह्यं ब्रह्म गुरुर्ब्रह्म ऋतं ब्रह्म प्रकाशकम् ॥ ३९.३४॥

सत्यं ब्रह्म समं ब्रह्म सारं ब्रह्म निरंजनम् । एकं ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म न संशयः ॥ ३९.३५॥

इदं ब्रह्म स्वयं ब्रह्म लोकं ब्रह्म सदा परः । आत्मब्रह्म परं ब्रह्म आत्मब्रह्म निरंतरः ॥ ३९.३६॥

एकं ब्रह्म चिरं ब्रह्म सर्वं ब्रह्मात्मकं जगत् । ब्रह्मैव ब्रह्म सद्ब्रह्म तत्परं ब्रह्म एव हि ॥ ३९.३७॥

चिद्ब्रह्म शाश्वतं ब्रह्म ज्ञेयं ब्रह्म न चापरः । अहमेव हि सद्ब्रह्म अहमेव हि निर्गुणं ॥ ३९.३८॥

अहमेव हि नित्यात्मा एवं भावय सुव्रत । अहमेव हि शास्त्रार्थ इति निश्चित्य सर्वदा ॥ ३९.३९॥

आत्मैव नान्यद्भेदोऽस्ति सर्वं मिथ्येति निश्चिनु । आत्मैवाहमहं चात्मा अनात्मा नास्ति नास्ति हि ॥ ३९.४०॥

विश्वं वस्तुतया विभाति हृदये मूढात्मनां बोधतो- ऽप्यज्ञानं न निवर्तते श्रुतिशिरोवार्तानुवृत्त्याऽपि च । विश्वेशस्य समर्चनेन सुमहाल्लिंगार्चनाद्यस्यदृक् रुद्राक्षामलधारणेन भगवद्ध्यानेन भात्यात्मवत् ॥ ३९.४१॥

॥ इति श्रीशिवरहस्ये शंकाराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वलयप्रकरणं नाम एकोनचत्वारिंशोऽध्यायः ॥

॥ चत्वारिंशोऽध्यायः ॥

ऋभुः –

सर्वसारात् सारतरं ततः सारतरांतरं ।
इदमन्तिमत्यन्तं शृणु प्रकरणं मुदा ॥ ४०.१॥

ब्रह्मैव सर्वमेवेदं ब्रह्मैवान्यन्न किंचन ।
निश्चयं दृढमाश्रित्य सर्वत्र सुखमास्व ह ॥ ४०.२॥

ब्रह्मैव सर्वभुवनं भुवनं नाम संत्यज ।
अहं ब्रह्मेति निश्चित्य अहं भावं परित्यज ॥ ४०.३॥

सर्वमेवं लयं याति स्वयमेव पतत्रिवत् ।
स्वयमेव लयं याति सुप्तहस्तस्थपद्मवत् ॥ ४०.४॥

न त्वं नाहं न प्रपञ्चः सर्वं ब्रह्मैव केवलं ।
न भूतं न च कार्यं च सर्वं ब्रह्मैव केवलं ॥ ४०.५॥

न दैवं न च कार्याणि न देहं नेन्द्रियाणि च ।
न जाग्रन्न च वा स्वप्नो न सुषुप्तिर्न तुर्यकं ॥ ४०.६॥

इदं प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चिनु ।
सर्वं मिथ्या सदा मिथ्या सर्वं ब्रह्मेति निश्चिनु ॥ ४०.७॥

सदा ब्रह्म विचारं च सर्वं ब्रह्मेति निश्चिनु ।
तथा द्वैतप्रतीतिश्च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.८॥

सदाहं भावरूपं च सर्वं ब्रह्मेति निश्चिनु ।
नित्यानित्यविवेकं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.९॥

भावाभावप्रतीतिं च सर्वं ब्रह्मेति निश्चिनु ।
गुणदोषविभागं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१०॥

कालाकालविभागं च सर्वं ब्रह्मेति निश्चिनु ।
अहं जीवेत्यनुभवं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.११॥

अहं मुक्तोऽस्म्यनुभवं सर्वं ब्रह्मेति निश्चिनु ।
सर्वं ब्रह्मेति कलनं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१२॥

सर्वं नास्तीति वार्ता च सर्वं ब्रह्मेति निश्चिनु ।
देवतान्तरसत्ताकं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१३॥

देवतान्तरपूजा च सर्वं ब्रह्मेति निश्चिनु ।
देहोऽहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१४ ॥

ब्रह्माहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
गुरुशिष्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१५ ॥

तुल्यातुल्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
वेदशास्त्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१६ ॥

चित्तसत्त्वादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
बुद्धिनिश्चयसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१७ ॥

मनोविकल्पसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
अहङ्कारादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१८ ॥

पञ्चभूतादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
शब्दादिसत्त्वासङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१९ ॥

दृग्वार्तादिकसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
कर्मेन्द्रियादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२० ॥

वचनादानसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
मुनीन्द्रोपेन्द्रसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२१ ॥

मनोबुद्ध्यादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
सङ्कल्पाध्यास इत्यादि सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२२ ॥

रुद्रक्षेत्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
प्राणादिदशसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२३ ॥

माया विद्या देहजीवाः सर्वं ब्रह्मेति निश्चिनु ।
स्थूलव्यष्ट्यादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२४ ॥

सूक्ष्मव्यष्टिसमष्ट्यादि सर्वं ब्रह्मेति निश्चिनु ।
व्यष्ट्यज्ञानादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२५ ॥

विश्ववैश्वानरत्वं च सर्वं ब्रह्मेति निश्चिनु ।
तैजसप्राज्ञभेदं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२६ ॥

वाच्यार्थं चापि लक्ष्यार्थं सर्वं ब्रह्मेति निश्चिनु ।
जहल्लक्षणयानैक्यं अजहल्लक्षणा ध्रुवं ॥ ४०.२७ ॥

भागत्यागेन नित्यैक्यं सर्वं ब्रह्म उपाधिकं ।
लक्ष्यं च निरुपाध्यैक्यं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२८ ॥