ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
अकैतवेन भावेन श्रवणीयो महेश्वरः ॥ ४८.२८॥
सूतः -
यः कोऽपि प्रसभं प्रदोषसमये बिल्वीदलालंकृतं
लिंगं तुंगमपारपुण्यविभवैः पश्येदधार्चेत वा ।
प्राप्तं राज्यमवाप्य कामहृदयस्तुष्येदकामो यदि
मुक्तिद्वारमपावृतं स तु लभेत् शंभोः कटाक्षांकुरैः ॥ ४८.२९॥
अचलातुलराजकन्यकाकुचलीलामलबाहुजालमीशं ।
भजतामनलाक्षिपादपद्मं भवलीलं न भवेत चित्तबालं ॥ ४८.३०॥
भस्मत्रिपुण्ड्ररचितांगकबाहुफाल-
रुद्राक्षजालकवचाः श्रुतिसूक्तिमालाः ।
वेदोबोरत्नपदकांकितशंभुनाम-
लोला हि शांभववराः परिशीलयन्ति ॥ ४८.३१॥
॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे स्कन्दकृतशिवव्रतोपदेशवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥
॥ एकोनपञ्चाशोऽध्यायः ॥
स्कन्दः -
पुरा मगधदेशीयो ब्राह्मणो वेदपारगः । उचथ्यतनयो वाग्मी वेदार्थप्रवणे धृतः ॥ ४९.१॥
नाम्ना सुदर्शनो विप्रान् पाठयन् शास्त्रमुत्तमं । वेदान्तपरया भक्त्या वर्णाश्रमरतः सदा ॥ ४९.२॥
मोक्षमिच्छेदपि सदा विप्रोऽपि च जनार्दनात् । विष्णुपूजापरो नित्यं विष्णुक्षेत्रेषु संवसन् ॥ ४९.३॥
गोपीचन्दनफालौसा तुलस्यै वार्चयद्धरिं । उवास नियतं विप्रो विष्णुध्यानपरायणः ॥ ४९.४॥
दशवर्षमिदं तस्य कृत्यं दृष्ट्वा जनार्दनः । मोक्षेच्छोराजहावेनं पुरतोऽभूय तं द्विजं ॥ ४९.५॥
विष्णुः -
औचथ्य मुनिशार्दूल तपस्यभिरतः सदा । वृणु कामं ददाम्येव विना ज्ञानं द्विजोत्तम ॥ ४९.६॥
सूतः -
इति विष्णोर्गिरं श्रुत्वा विप्रः किञ्चिद्भयान्वितः । प्रणिपत्याह तं विष्णुं स्तुवन्नारायणेति तं ॥ ४९.७॥
सुदर्शनः -
विष्णो जिष्णो नमस्तेऽस्तु शङ्खचक्रगदाधर । त्वत्पादनलिनं प्राप्तो ज्ञानायानर्हणः किमु ॥ ४९.८॥
किमन्यैरर्थकामार्तैरीश्वर्यैरिह शम्भुभृत् । इत्युक्तं तद्वचः श्रुत्वा विष्णु प्राह सुदर्शनं ॥ ४९.९॥
विष्णुः -
सुदर्शन शृणुष्वैतन्मत्तो नान्यमना द्विज । वदामि ते हितं सत्यं मया प्राप्तं यथा तव ॥ ४९.१०॥
मदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणां । मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥ 49.11॥
तदर्चनेन संप्राप्तं मया पूर्वं सुदर्शनं । सहस्रारं दैत्यहंतृ साक्षात् त्र्यक्षप्रपूजया ॥ 49.12॥
तमाराधय यत्नेन भस्मधारणपूर्वकं । अग्निरित्यादिभिर्मन्त्रैस्त्र्यायुषत्रिपुण्ड्रकैः ॥ 49.13॥
रुद्राक्षधारको नित्यं रुद्रपंचाक्षरादरः । शिवलिंगं बिल्वपत्रैः पूजयन् ज्ञानवान् भव ॥ 49.14॥
वसन् क्षेत्रे महेशस्य स्नाहि तीर्थे च शांकरे । अहं ब्रह्मादयो देवाः पूजय्यैव पिनाकिनः ॥ 49.15॥
बलिनः शिवलिंगस्य पूजया विप्रसत्तम । यस्य फाल Public/तलं मेऽद्य त्रिपुण्ड्रपरिचिन्हितं ॥ 49.16॥
ब्रह्मेंद्रदेवमुनिभिस्त्रिपुण्ड्रं भस्मना धृतं । पश्य वक्षसि बाह्वोर्ये रुद्राक्षाणां प्रजं शुभां ॥ 49.17॥
पंचाक्षरजपासक्तो रुद्राध्यायपरायणः । त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवं ॥ 49.18॥
कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः । पूजयत्यनिशं लिंगे तथा ब्रह्मादयः सुराः ॥ 49.19॥
मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः । नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥ 49.20॥
ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शंकरार्चनात् । तस्मात् त्वमपि भक्त्यैव समाराधय शंकरं ॥ 49.21॥
पशवो विष्णुविधयस्तथान्ये मुनयः सुराः । सर्वेषां पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥ 49.22॥
प्रसादजनकं तस्य भस्मधारणमेव हि । प्रसादजनकं तस्य मुने रुद्राक्षधारणं ॥ 49.23॥
प्रसादजनकस्तस्य रुद्राध्यायजपः सदा । प्रसादजनकस्तस्य पंचाक्षरजपो द्विज ॥ 49.24॥
प्रसादजनकं तस्य शिवलिंगैकपूजनं । प्रसादे शांभवे जाते भुक्तिमुक्ती करे स्थिते ॥ 49.25॥
तस्य भक्त्यैव सर्वेषां मोचनं भवपाशतः । तस्य प्रीतिकरं साक्षाद्विल्वलिङ्गस्य पूजनम् ॥ 49.26॥
तस्य प्रीतिकरं साक्षाच्छिवक्षेत्रेषु वर्तनम् । तस्य प्रीतिकरं साक्षात् शिवतीर्थनिषेवणम् ॥ 49.27॥
तस्य प्रीतिकरं साक्षात् भस्मरुद्राक्षधारणम् । तस्य प्रीतिकरं साक्षात् प्रदोषे शिवपूजनम् ॥ 49.28॥
तस्य प्रीतिकरं साक्षाद् रुद्रपञ्चाक्षरावृतिः । तस्य प्रीतिकरं साक्षाच्छिवभक्तजनार्चनम् ॥ 49.29॥
तस्य प्रीतिकरं साक्षात् सोमे सायन्तनार्चनम् । तस्य प्रीतिकरं साक्षात् तन्निर्माल्यैकभोजनम् ॥ 49.30॥
तस्य प्रीतिकरं साक्षाद् अष्टम्यीश्वरार्चनं निशि । तस्य प्रीतिकरं साक्षात् चतुर्दश्यर्चनं निशि ॥ 49.31॥
तस्य प्रीतिकरं साक्षात् तन्नाम्नां स्मृतिरेव हि । एतावानेन धर्मो हि शम्भोः प्रियकरो महान् ॥ 49.32॥
अन्यदभ्युदयं विप्र श्रुतिस्मृतिषु कीर्तितम् । धर्मो वर्णाश्रमप्रोक्तो मुनिभिः कथितो मुने ॥ 49.33॥
अविमुक्ते विशेषेण शिवो नित्यं प्रकाशते । तस्मात् काशीति तत् प्रोक्तं यतो हीशः प्रकाशते ॥ 49.34॥
तत्रैवामरणं तिष्ठेदिति जाबालिकी श्रुतिः । तत्र विश्वेश्वरे लिङ्गे नित्यं ब्रह्म प्रकाशते ॥ 49.35॥
तत्रान्नपूर्णा सर्वेषां भुक्त्यन्नं सम्प्रयच्छति । तत्रास्ति मणिकर्ण्याख्यं मणिकुण्डं विनिर्मितम् ॥ 49.36॥
ज्ञानोदयोऽपि तत्रास्ति सर्वेषां ज्ञानदायकः । तत्र याहि मया सार्धं तत्रैव वस वै मुने ॥ 49.37॥
तत्रान्ते मोक्षदं ज्ञानं ददातीश्वर एव हि । इत्युक्त्वा तेन विप्रेण ययौ काशीं हरिः स्वयं ॥ 49.38॥
स्नात्वा तीर्थे चक्रसंज्ञे ज्ञानवाप्यां हरिद्विजः । तं द्विजं स्नापयामास भस्मनापादमस्तकम् ॥ 49.39॥
धृतत्रिपुण्ड्ररुद्राक्षं कृत्वा तं च सुदर्शनम् । पूजयच्चाथ विश्वेशं पूजयामास च द्विजान् ॥ 49.40॥
जल्यैर्गन्धाक्षतैर्दीपैर्नैवेद्यैश्च मनोहरैः । तुष्टाव प्रणिपत्यैवं स द्विजो मधुसूदनः ॥ ४९.४१॥
सुदर्शनविष्णुः -
भज भज भसितानलोज्ज्वलाक्षं भुजगाभोगभुजंगसंगहस्तं । भवभीममहोग्ररुद्रमीड्यं भवभर्गकतर्तकं महेनसां ॥ ४९.४२॥
वेदघोषभटकाटकावधृक् देहदाहदहनामल काल । जूटकोटिसुजतातटिद्युद्रागरंजितटिनीशशिमौले ॥ ४९.४३॥
शंबरांकवरभूष पाहि मामंबरांतरचरस्फुटवाह । वारिजाद्यघनघोष शंकर त्राहि वारिजभवेड्य महेश ॥ ४९.४४॥
मदगजवरकृत्तिवास शंभो मधुमदनाक्षिसरोरुहार्च्यपाद । यममददमनांधशिक्ष शंभो पुरहर पाहि दयाकटाक्षसारैः ॥ ४९.४५॥
अपां पुष्पं मौलौ हिमभयहरः फालनयनः जटाजूटे गङ्गाऽम्मुजविकसनः सव्यनयनः । गरं कंठे यस्य त्रिभुवनगुरोः शंबरहर मतंगोद्यत्कृत्य्ववहरणपादाब्जभजनं ॥ ४९.४६॥
श्रीबिल्वमालशितिकंठमहेशलिंगं जल्यांबुजोत्तमवरैः परिपूज्य भक्त्या । स्तंबेरमांगवदनौत्तमसंगभंग राजद्विषांगपरिसंगमहेशशांगं ॥ ४९.४७॥
यो गौरीरमणार् Uno चनोद्यतमतिर्भूयो भवेच्छांभवो भक्तो जन्मपरंपरासु तु भवेन्मुक्तोऽथ मुक्त्यंगना- कांतस्वांतनितांतशांतहृदये कार्तांतवार्तोज्झितः । विष्णुब्रह्मसुरेंद्ररंजितमुमाकांतांघ्रिपंकेरुह- ध्यानानंदनिमग्नसर्वहृदयः किंचिन्न जानात्यपि ॥ ४९.४८॥
कामारातिपदांबुजार्चनरतः पापानुतापाधिक- व्यापारप्रवणप्रकीर्णमनसा पुण्यैरगण्यैरपि । नो दूयेत विशेषसंततिमहोसारानुकारादरा- दाराग्राहकुमारमारुसुशराद्याघातभीतैरपि ॥ ४९.४९॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे विष्ण्वाद्यसंवादे शिवस्य ज्ञानदातृत्वनिरूपणं नाम एकोनपञ्चाशोऽध्यायः ॥
॥ पञ्चाशोऽध्यायः ॥
स्कन्दः -
विष्णुस्तवान्ते विप्रोऽसौ सुदर्शनसमाह्वयः । स्नात्वाऽथ मणिकर्ण्यां स भस्मरुद्राक्षभूषणः ॥ ५०.१ ॥
संजपन् शतरुद्रीयं पञ्चाक्षरपरायणः । संपाद्य बिल्वपत्राणि कमलान्यमलान्यपि ॥ ५०.२ ॥
गन्धाक्षतैर्धूपदीपैर्नैवेद्यैर्विविधैरपि । विष्टापदृष्टमार्गेण नित्यमन्तर्गृहस्य हि ॥ ५०.३ ॥
प्रदक्षिणं चकारासौ लिङ्गान्यभ्यर्चयंस्तथा । विश्वेश्वरमविमुक्तेशं वीरेशं च त्रिलोचनम् ॥ ५०.४ ॥
कृत्तिवासं वृद्धकाले केदारं शूलटङ्ककम् । रत्नेशं भारभूतेशं चन्द्रेशं सिद्धकेश्वरम् ॥ ५०.५ ॥
घुण्टाकर्णेश्वरं चैव नारदेशं यमेश्वरम् । पुलस्तिपुलहेशं च विकर्णेशं फलेश्वरम् ॥ ५०.६ ॥
कद्रुद्रेशमखण्डेशं केतुमालिं गभस्तिकम् । यमुनेशं वर्णकेशं भद्रेशं ज्येष्ठशङ्करम् ॥ ५०.७ ॥
नन्दिकेशं च रामेशं करमर्देश्वरं तथा । आवर्तेशं मातङ्गेशं वासुकीशं द्रुतीश्वरम् ॥ ५०.८ ॥
सूर्येशमर्यमेशं च तूणीशं गालवेश्वरम् । कण्वकात्यायनेशं च चन्द्रचूडेश्वरं तथा ॥ ५०.९ ॥
उदावर्तेश्वरं चैव तृणज्योतीश्वरं सदा । कङ्कणेशं तङ्कणेशं स्कन्देशं तारकेश्वरम् ॥ ५०.१० ॥
जम्बुकेशं च ज्ञानेशं नन्दीशं गणपेश्वरम् । एतान्यन्तर्गृहे विप्रः पूजयन् परया मुदा ॥ ५०.११ ॥
ढुण्ढ्यादिगणपांश्चैव भैरवं चापि नित्यशः । अन्नपूर्णामन्नदात्रीं साक्षाल्लोकैकमातरम् ॥ ५०.१२ ॥
दण्डपाणिं क्षेत्रपालं सम्यगभ्यर्च्य तस्थिवान् । तीर्थान्यान्यपि मुनिर्मणिकर्ण्यादि सत्तम ॥ ५०.१३ ॥
ज्ञानोदं सिद्धकूपं च वृद्धकूपं पिशाचकम् । ऋणमोचनतीर्थं च गर्गतीर्थं महत्तरम् ॥ ५०.१४॥
स्नात्वा सनियमं विप्रो नित्यं पञ्चनदे ह्रदे । किरणां धूतपापां च पञ्चगङ्गामपि द्विजः ॥ ५०.१५॥
गङ्गां मनोरमां तुङ्गां सर्वपापप्रणाशिनीम् । मुक्तिमण्टपमास्थाय स जपञ्छतरुद्रियम् ॥ ५०.१६॥
अष्टोत्तरसहस्रं वै जपन् पञ्चाक्षरं द्विजः । पक्षे पक्षे तथा कुर्वन् पञ्चक्रोशप्रदक्षिणम् ॥ ५०.१७॥
अन्तर्गृहोद्बहिर्देशे चकारावसथं तदा । एवं संवसतस्तस्य कालो भूयानवर्तत ॥ ५०.१८॥
तत्र दृष्ट्वा तपोनिष्ठं सुदर्शनसमाह्वयम् । विष्णुस्तदा वै तं विप्रं समाहूय शिवार्चकम् ॥ ५०.१९॥
पुनः प्राह प्रसन्नेन चेतसा मुनिसत्तमम् ।
विष्णुः - भोः सुदर्शनविप्रेन्द्र शिवार्चनपरायण । ज्ञानपात्रं भवानेव विश्वेशकृपयाऽधुना ॥ ५०.२०॥
त्वया तपांसि तप्तानि इष्टा यज्ञाश्चयैव हि । अधीताश्च त्वया वेदाः काश्यां वासो यतस्तव ॥ ५०.२१॥
बहुभर्जन्मभिर्येन कृतं क्षेत्रे महत्तपः । तस्यैव सिद्ध्यत्यमला काशीयं मुक्तिकाशिका ॥ ५०.२२॥
तव भाग्यस्य नान्तोऽस्ति मुने त्वं भाग्यवानसि । किञ्चैकं तव वक्ष्यामि हितमात्यन्तिकं शृणु ॥ ५०.२३॥
विश्वेशकृपया तेऽद्य मुक्तिरन्ते भविष्यति । रुद्राक्षनामपुण्यं यत् नाम्नां साहस्रमुत्तमम् ॥ ५०.२४॥
उपदेक्ष्यामि ते विप्र नामसाहस्रमीशितुः । तेनार्चयेशं विश्वेशं बिल्वपत्रैर्मनोहरैः ॥ ५०.२५॥
वर्षमेकं निराहारो विश्वेशं पूजयन् सदा । संवत्सरान्ते मुक्तस्त्वं भविष्यति न संशयः ॥ ५०.२६॥
त्वद्देहोपगमे मन्त्रं पञ्चाक्षरमनुत्तमम् ।
ददाति देवो विश्वेशस्तेन मुक्तो भविष्यति ॥ ५०.२७॥
शैवेभ्यः सञ्जीवेभ्यो ददातीमं महामनुम् ।
स्कन्दः –
इति विष्णुवचः श्रुत्वा प्रणम्याह हरिं तदा ।
सुदर्शनो ययाचेत्थं नाम्नां साहस्रमुत्तमम् ॥ ५०.२८॥
भगवन् दैत्यवृन्दघ्न विष्णो जिष्णो नमोऽस्तु ते ।
सहस्रनाम्नां यद्दिव्यं विश्वेशस्याशु तद्वद ॥ ५०.२९॥
येन जप्तेन देवेशः पूजितो बिल्वपत्रकैः ।
ददाति मोक्षसाम्राज्यं देहान्ते तद्वदाशु मे ॥ ५०.३०॥
तदा विप्रवचः श्रुत्वा तस्यै चोपादिशत् स्वयं ।
सहस्रनाम्नां देवस्य हिरण्यस्येत्यादि सत्तम ॥ ५०.३१॥
तेन सम्पूज्य विश्वेशं वर्षमेकमतन्द्रितः ।
कोमलारक्तबिल्वैश्च स्तोत्रेणानेन तुष्टुवे ॥ ५०.३२॥
सुदर्शनः –
आशीविषाङ्गपरिमण्डलकण्ठभाग-
राजत्सुसागरभवोग्रविषोरुशोभ ।
फालस्फुरज्ज्वलनदीप्तिविदीपिताशा-
शोकावकाश तपनाक्ष मृगाङ्कमौले ॥ ५०.३३॥
क्रुद्धोडुजायापतिधृतार्धशरीरशोभ
पाह्यीशु शासितमखान्धकदक्षशत्रो ।
सुत्रामवज्रकरदण्डविखण्डितोरु-
पक्षाद्भ्युक्षितिधरोर्ध्वशयाव शम्भो ॥ ५०.३४॥
उत्फुल्लहल्लिकलसत्करवीरमाला-
भ्राजत्सुकन्धरशरीर पिनाकपाणे ।
चञ्चत्सुचन्द्रकलिकोत्तमचारुमौलिं
लिङ्गे कुलुञ्चपतिमञ्जिकया समेतम् ॥ ५०.३५॥
छायाधवानुजलसच्छदनैः परिपूज्य भक्त्या
मुक्तेन स्वस्य च विराजितवंशकोट्या ।
सायं संगवपुंगवोरुवहनं श्रीतुंगलिंगार्चकः
शाङ्गाः पातकसंगभंगचतुरश्चासङ्ग नित्यान्तरः ॥ ५०.३६॥
फालाक्षस्फुरदक्षिजस्फुरदुरुस्फूलिंगदग्धांगका-
नंगोत्तुंगमतंगकृत्तिवसनं लिंगं भजे शांकरं ।
अच्छाच्छागवहं सुरतामीक्षाशिनांते विभो
वृष्यं शांकरवाहनाम निरताः सोमं तथा वाजिनं ॥ ५०.३७॥
त्यक्त्वा जन्मविनाशनं त्विति मुहुस्ते जिह्वया सत्तमाः
ये शंभोः सकृदेव नामनिरताः शांगाः स्वतः पावनाः ॥ ५०.३८॥
मृगांक मौळीमीश्वरं मृगेन्द्रशत्रुजत्वचं ।
वसानमिन्दुसप्रभं मृगाद्यबालसत्करं ।
भजे मृगेन्द्रसप्रभं ??? ??? ॥ ५०.३९॥
स्कन्दः –
एवं स्तुवंतं विश्वेशं सुदर्शनमतंद्रितं ।
प्राहेत्थं शौरिमाभाष्य शंभोर्भक्तिविवर्धनं ॥ ५०.४०॥
विष्णुः –
अत्रैवामरणं विप्र वस त्वं नियताशनः ।
नाम्नां सहस्रं प्रजपन् शतरुद्रीयमेव च ॥ ५०.४१॥
अन्तर्गेहात् बहिः स्थित्वा पूजयाशु महेश्वरं ।
तवान्ते भूरिकरुणो मोक्षं दास्यत्यसंशयं ॥ ५०.४२॥
स प्रणम्याह विश्वेशं दृष्ट्वा प्राह सुदर्शनं ।
धन्यस्त्वं लिंगेऽप्यनुदिनगलितस्वांतरंगाघसंघः
पुंसां वर्याद्यभक्त्या यमनियमवरैरीश्वरंवद्यं प्रभाते ।
दत्वा बिल्ववरं सItemबुजदलं किंचिज्जलं वा मुहुः
प्राप्नोतीश्वरपादपंकजमुमानाथद्य मुक्तिप्रदं ॥ ५०.४३॥
को वा त्वत्सदृशो भवेदगपतिप्रेमैकलिंगार्चको
मुक्तानां प्रवरोर्ध्वकेशविलसद्भक्तिबीजांकुरैः ।
देवा वाप्यसुराः सुरा मुनिवरा भारा भुवः केवलं
वीरा वा करवीरपुष्पविलसन्मालाप्रदे नो समः ॥ ५०.४४॥
वने वा राज्ये वाप्यगपतिसुतानायकमहो
स्फुरल्लिंगार्चायां नियममतभावेन मनसा ।
हारं भक्त्या साध्य त्रिभुवनतृणाडम्बरवर- प्ररूढैर्भाग्यैर्वा न हि खलु स सज्जेत भुवने ॥ ५०.४५॥
न दानैर्योगैर्वा विधिविहितवर्णाश्रममखैः । अपारैर्वेदान्तप्रतिवचनवाक्यानुसरणैः । न मन्येऽहं स्वान्ते भवभजनभावेन मनसा मुहुर्लिङ्गं शार्ङ्गं भजति परमानन्दकुहरः ॥ ५०.४६॥
शर्वं परवतनन्दिनीपतिमहानन्दाम्बुधेः पारगा रागत्यागहृदा विरागपरमा भस्माङ्गरागादराः । मारापारशराभिघातरहिता धीरोरुधारारसैः पारावारमहाघसंसृतिभरं तीर्णाः शिवाभ्यर्चनात् ॥ ५०.४७॥
मार्कण्डेयसुतं पुराऽन्तकभयाद्योऽरक्षदीशो हरः तत्पादाम्बुजरागरञ्जितमना नाप्नोति किं वा फलं । तं मृत्युञ्जयमञ्जसा प्रणमतामोजोजिमध्ये जयं जेतारोतपराजायो जनिजरारोगैर्विमुक्तिं लभेत् ॥ ५०.४८॥
भूतायां भूतनाथं तृषुमतितिलकाकारभिल्लोत्थशल्यः धावन् भल्लूकपष्ठे निशि किल सुमहाद्वाप्रुभीत्याऽरुरोह । बिल्वं नल्पप्रभं तच्छदुफनुमसज्कृत् पातयामास मूले निद्रातन्द्रोज्झितोऽसौ मृगगणकलने मूललिङ्गेऽथ शाङ्गे ॥ ५०.४९॥
तेनाभूद्भगवान् गणोत्तमवरो मुक्ताघसङ्घस्तदा चण्डांशोस्तनयेन पूजितपदः सारूप्यमापेशितुः । गङ्गाचन्द्रकलाकपर्दविलसत्पालस्फुलिङ्गोज्ज्वलद् वालन्यङ्कुकराग्रसङ्गतमहाशूलाहि टङ्कोद्यतः ॥ ५०.५०॥
चैत्रे चित्रैः पातकैर्विप्रमुक्तो वैशाखे वै दुःखशाखाविमुक्तः । ज्येष्ठे श्रेष्ठो भवतेषाढमासि पुत्रप्राप्तिः श्रावणे श्रान्तिनाशः ॥ ५०.५१॥
भाद्रे भद्रो भवते चाश्विने वै अश्वप्राप्तिः कार्त्तिके कीर्त्तिलाभः । मार्गे मुक्तेर्मार्गमेतल्लभेत पुष्ये पुण्यं माघुके चाघनाशः ॥ ५०.५२॥
फल्गु त्वंहो फाल्गुने मासि नश्येदीशार्चातो बिल्वपत्रैश्चलिङ्गे । एवं तत्तन्मासि पूज्येशलिङ्गं चित्रैः पापैर्विप्रमुक्तो द्विजेन्द्रः ॥ ५०.५३॥
दूर्वाङ्कुरैरभिनवैः शशिधामचूड- लिङ्गार्चनेन परिशेषयदङ्कुराणि ।
संसारघोरतररूपकराणि सद्यः मुक्त्यंकुराणि परिवर्धयतीह धन्यः ॥ ५०.५४॥
गोक्षीरेक्षुक्षौद्रखण्डाज्यदध्ना सन्नारेलैः पानसापूदिसारैः । विश्वेशानं सत्सीतारत्नतोयैः गन्धोद्वैर्वा सिञ्च्य दोषैर्विमुक्तः ॥ ५०.५५॥
लिङ्गं चन्दनलेपसंगतमुमाकान्तस्य पश्यन्ति ये ते संसारभुजङ्गभङ्गपतनानङ्गाङ्गसङ्गोर्जिताः । व्यङ्गं सर्वसमर्चनं भगवतः साङ्गं भवेच्छाङ्करं शङ्गापाङ्गकृपाकटाक्षलहरी तस्मिंश्चिरं तिष्ठति ॥ ५०.५६॥
मुरलिसरलिरागैर्गर्जलैस्तालशङ्खैः पटुपटहनिनाद्वान्तसन्धानघोषैः । दुन्दुभ्याहूतवाद्यैररयुवतिमहोन्नृत्तसंरम्भरङ्गैः दर्शेष्योदर्शदर्शो भगवति गिरिजानायके मुक्तिहेतुः ॥ ५०.५७॥
स्वच्छच्छत्रभवीनां विविधजितमहोच्चायया छन्नमैशं शीर्षं विच्छिन्नपापो भवति भवहरः पूजकः शम्भुभक्त्या । चञ्चच्चन्द्राभकाण्डप्रविलसदमलस्वर्णरत्नाग्रभाभि- र्दीप्यच्चामरकोटीभिः स्फुटपटुटितैश्चाकचक्यैः पताकैः ॥ ५०.५८॥
सम्पश्यारुणभूरुहोत्तमशिखासंलेढितारागणं तारानाथकलाधरोरुसुमहोलिङ्गोपुसंसेवितं । बिल्वानां कुलमेतदत्र सुमहोपापाघसंहारकृत् वारणां निखिलप्रमोदजनकं शम्भोः प्रियं केवलं ॥ ५०.५९॥
अन्नं पोत्रिमलायते धनरसं कोलेयमूत्रायते संवेशो निगलायते मम सदानन्दो कन्दायते । शम्भो ते स्मरणान्तरायभरित प्राणः कृपाणायते ॥ ५०.६०॥
कः कल्पद्रुमुपेक्ष्य चित्तफलदं तूलादिदानक्षयं बब्बूलं परिसेवते क्षुदधिको वातूलदानक्षमं । तद्वच्छङ्करकिङ्करो विधिहरिब्रह्मेन्द्रचन्द्रानलान् सेवेद्यो विधिवञ्चितः कलिबलप्राचुर्यतो मूढधीः ॥ ५०.६१॥
सुवर्णाण्डोद्भूतस्तुतिगतिसमर्चाण्डजवर- प्रपादं त्वां कश्चिद् भजति भुवने भक्तिपरमः ।
महाचण्डोद्दण्डप्रकटितभुवं ताण्डवपरं
विभुं सन्तं नित्यं भज भगणनाथामलजटम् ॥ ५०.६२॥
अजगवकर विष्णुबाण शम्भो
दुरितहरान्तकनाश पाहि मामनाथम् ।
भवदभयपदाब्जवर्यमेत-
न्मम चित्तसरस्तटान्न्यायातु चाद्य ॥ ५०.६३॥
इत्थं विसृज्य काश्यां प्रमथपतिमगात् पूज्य विश्वेश्वरं तं
क्षितिसुरवरवर्यं चानुशास्येत्थमिष्टम् ।
स च मुनिगणमध्ये प्राप्य मुक्तिं तथान्ते
प्रमथपतिपदाब्जे लीनहीनाङ्गसङ्गः ॥ ५०.६४॥
सूतः –
इत्थं श्रुत्वा मुनीन्द्रोऽसौ जैगीषव्योऽवदद्विभुम् ।
प्रणिपत्य प्रहृष्टात्मा षष्ठांशं वै षडास्यतः ॥ ५०.६५॥
जैगीषव्यः –
मारमारकजानन्दवसतेर्महिमा कथम् ।
नाम्नां सहस्रमेतच्च वद मे करुणानिधे ॥ ५०.६६॥
क्षेत्राणां चाप्यथान्यानां महिमां वद सद्गुरो ।
शूरतारकसंहर्तस्त्वत्तो नान्यो गुरुर्मम ॥ ५०.६७॥
तच्छ्रुत्वा तु मुनेर्वाक्यं स्कन्दः प्राहोथ तं मुनिम् ।
स्कन्दः –
आगामिन्यंशकेऽस्मिंस्तव हृदयमहानन्दसिन्धौ विधुत्थ-
प्राचुर्यप्रकटैः करोपममहासप्तमांशे विशेषे ।
नाम्नां चापि सहस्रकं भगवतः शम्भोः प्रियं केवलम्
अस्यानन्दवनस्य चैव महिमा त्वं वै शृणुष्वादरात् ॥ ५०.६८॥
उग्रोंऽशः शशिशेखरेण कथितो वेदान्तसारात्मकः
षष्ठः षण्मुखसत्तमाय स ददौ तद्ध्यानतो सोऽप्यदात् ।
पुत्रायात्मभवाय तद्व्यवहरं श्रुत्वा भवेद् ज्ञानवित्
चोक्त्वा जन्मशतायुतार्जितमहापापैर्विमुक्तो भवेत् ॥ ५०.६९॥
श्रुत्वांशमेतद् भवतापपापाहं शिवास्पदज्ञानदमुत्तमं महत् ।
ध्यानेन विज्ञानदमात्मदर्शनं ददाति शम्भोः पदभक्तिभावतः ॥ ५०.७०॥
अध्यायपादाध्ययनेऽपि विद्या बुद्ध्या हृदि ध्यायति बन्धमुक्त्यै ।
सूतः –
अध्यायपादाध्ययनेऽपि विद्या बुद्ध्या हृदि ध्यायति बन्धमुक्त्यै ।
स्वाध्यायतान्ताय शमान्विताय दद्याद्यदद्यान्न विभेद्यमेतत् ॥ ५०.७१॥
इत्थं सूतवचोद्यतमहानन्दैकमोदप्रभा
भास्वद्भास्करसप्रभा मुनिवराः संतुष्टुवुस्तं तदा ।
वेदोद्यद्वचनाशिषा प्रहृषिताः सूतं जयेत्युच्चरन्
प्याहो जग्मुरतीव हर्षितहृदा विश्वेश्वरं वीक्षितुम् ॥ ५०.७२॥
॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सुदर्शनस्य मुक्तिलाभवर्णनं अंशश्रवणफलनिरूपणं च नाम पञ्चाशोऽध्यायः ॥
॥ शङ्कराख्यः षष्ठांशः समाप्तः ॥
శ్రీ గురుజ్ఞానవాసిష్ఠే ఋభుగీత
(देवनागरी लिप्यान्तरण: श्री गुरुज्ञानवासिष्ठे ऋभुगीत)
॥ प्रथमोऽध्यायः ॥
श्री गुरुमूर्तिः ।
पुनर्ज्ञानं प्रवक्ष्यामि यथावत्हृत्संभव । येनैव सर्वे मुच्यन्ते जनास्संसारबन्धनात् ॥ १.०१॥
विधे पुरा निदाघाख्यो मुनिः पप्रच्छ सद्गुरुं । ऋभुसंज्ञं महाप्राज्ञं तद्वदामि तवाधुना ॥ १.०२॥
निदाघः ।
आत्मानात्मविवेकं मे कृपया ब्रूहि सद्गुरो । येन संसारपाथोधिं तरिष्यामि सुखेन वै ॥ १.०३॥
ऋभुरेवं तदा पृष्ट उवाच सकलार्थवित् । सर्ववेदान्तसारज्ञस्सर्वपूज्यो महत्तमः ॥ १.०४॥
ऋभुः ।
सर्ववाचोऽवधिर्ह्यह्मा सर्वचिन्ताऽवधिर्गुरुः । सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥ १.०५॥
सर्वसंकल्परहितस्सर्वनादमयश्शिवः । सर्ववर्जितचिन्मात्रस्सर्वानन्दमयः परः ॥ १.०६॥
सर्वतेजः प्रकाशात्मा नादानन्दमयात्मकः । सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥ १.०७॥
सर्वनादकलातीत एष आत्माऽहमव्ययः । आत्मानात्मविवेकादि भेदाभेदविवर्जितः ॥ १.०८॥
शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरात्मकः । महावाक्यार्थतो दूरो ब्रह्मास्मीत्यति दूरगः ॥ १.०९॥
तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः । क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ १.१०॥
अखण्डैकरसो वाऽहमानन्दोऽस्मीति वर्जितः । सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ १.११॥
आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः । सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥ १.१२॥
ननिर्देष्टुं च शक्यो यो वेदवाक्यैरगम्यकः । यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च ॥ १.१३॥
यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः । नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥ १.१४॥
नामरूपादिकं नास्ति भोज्यं वा भोगभुक् च वा । सद्वाऽसद्वा स्थितिर्वाऽपि यस्य नास्ति क्षराक्षरम् ॥ १.१५॥
गुणं वा विगुणं वाऽपि सम आसीन्न संशयः । यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १.१६॥
गुरुशिष्यादि भेदं वा देवलोकास्सुरासुराः । यत्र धर्ममधर्मं वा शुद्धं वाऽशुद्धमण्वपि ॥ १.१७॥
यत्र कालमकालं वा निश्चयं संशयं नहि । यत्र मन्त्रममन्त्रं वा विद्याऽविद्ये न विद्यते ॥ १.१८॥
द्रष्टृदर्शनदृश्यं वा ईषण्मात्रं कलादिकम् । अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा ॥ १.१९॥
अनात्मेति जगद्वाऽपि नास्ति नास्तीति निश्चिनु । सर्वसङ्कल्पशून्यत्वात् सर्वकार्यविवर्जनात् ॥ १.२०॥
केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु । देहत्रयविहीनत्वात् कालत्रयविवर्जनात् ॥ १.२१॥
लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् । चित्ताभावान्न चिन्तास्ति देहाभावाज्जरा न च ॥ १.२२॥
पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया न च । मृत्युर्नास्ति जराऽभावात् बुद्ध्याभावात् सुखादिकम् ॥ १.२३॥
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च । अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि ॥ १.२४॥
एकाभावे द्वितीयं न न द्वितीये नचैकता । सत्यत्वमस्तिचेत् किञ्चिदसत्यं न च सम्भवेत् ॥ १.२५॥
असत्यत्वं यदि भवेत् सत्यत्वं न वदिष्यति । शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते ॥ १.२६॥
भयं यद्यभयं विद्धि अभयाद्भयमापतेत् । बन्धत्वमपिचेन्नोक्तो बन्धाभावे न मोक्षता ॥ १.२७॥
मरणं यदि चेज्जन्म जन्माभावे मृतिश्च न ।
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ॥ १.२८॥
इदं यदि तदेवास्ति तदभावादिदं न च ।
अस्तीति चेन्नास्ति तदा नास्तिचेदस्ति किंचन ॥ १.२९॥
कार्यं चेत्कारणं किंचित् कार्याभावे न कारणं ।
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं न च ॥ १.३०॥
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ।
अन्तर्यदि बहिस्सत्यमन्ताभावे बहिेश्च न ॥ १.३१॥
पूर्णत्वमस्ति चेत्किंचिदपूर्णत्वं प्रसज्यते ।
तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदं ॥ १.३२॥
नास्ति दृष्टान्तकस्सत्ये नास्तिदार्ष्टान्तिकं ह्यजे ।
परं ब्रह्मेहमस्मीति स्मरणस्य मनो नहि ॥ १.३३॥
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहं ।
चिन्मात्रं केवलं चाहं नास्त्यनात्वेति निश्चिनू ॥ १.३४॥
इदं प्रपञ्चं नास्त्येव नोत्पन्नं नोस्थितं क्वचित् ।
चित्तं प्रपञ्चमित्याहुर्नास्त्येव सर्वदा ॥ १.३५॥
न प्रपञ्चं न चित्तादि नाहंकारो न जीवकः ।
मायाकार्यादिकं नास्ति माया नास्ति भयं न च ॥ १.३६॥
कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि ।
समाधि द्वितयं नास्ति मातृमानादि नास्ति हि ॥ १.३७॥
अज्ञानं चापि नास्त्येव ह्यविवेकः कदा च न ।
अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न ॥ १.३८॥
न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि ।
न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित् ॥ १.३९॥
न देवो न च दिक्पाला न वेदा न गुरुः क्वचित् ।
न दूरं नातिकं नान्तं न मध्यं न क्वचित् स्थितं ॥ १.४०॥
नाद्वैतद्वैतसत्यं वा ह्यसत्यं वा इदं च न ।
बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा ॥ १.४१॥
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकं ।
सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्येव नास्ति हि ॥ १.४२॥
चिदित्येवैति नास्त्येव चिदहं भाषणं नहि ।
अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मिन क्वचित् ॥ १.४३॥
वाचा यदुच्यते किञ्चिन् मनसा मनुते क्वचित् ।
बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि ॥ १.४४॥
योगियोगादिकं नास्ति सदा सर्वं सदा न च ।
अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि ॥ १.४५॥
भ्रान्त्यभ्रान्त्यादिकं नास्ति नास्त्यनात्मेति निश्चिनु ।
वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः ॥ १.४६॥
लोको भूतं जनस्यैक्यं सर्वं मिथ्या न संशयः ।
वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् ॥ १.४७॥
मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः ।
बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित् ॥ १.४८॥
शास्त्रैः प्रपञ्च्यते यद्यत् नेत्रैणैव निरीक्ष्यते ।
श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च ॥ १.४९॥
त्वमहं तदिदं सोऽहमन्यत् सद्भावमेव च ।
नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥ १.५०॥
इदं मिथ्यैवनिर्दिष्टमयमित्येव कल्प्यते ।
यद्यत्सम्भाव्यते लोके सर्वं सङ्कल्पसम्भ्रमः ॥ १.५१॥
सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ।
सर्वदोषप्रभेदं च नास्त्यनात्मेति निश्चिनु ॥ १.५२॥
मदीयं च त्वदीयं च ममेति च तवेति च ।
मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् ॥ १.५३॥
रक्षको विष्णुरित्यादि ब्रह्मो सृष्टेस्तु कारणम् ।
संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु ॥ १.५४॥
स्नानं जपस्तपो होमस्स्वाध्यायो देवपूजनम् ।
मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् ॥ १.५५॥
अन्तःकरण सद्भावोऽविद्यायाश्च सम्भवः ।
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ॥ १.५६॥
सर्वदेशिकवाक्योक्तिर्येनकेनापि निश्चिता ।
दृश्यते जगति यद्यत् यद्यज्जगति वीक्ष्यते ॥ १.५७॥
वर्तते जगति यद्यत् सर्वं मिथ्येति निश्चिनम् ।
येनेकेनाक्षरेणोक्तं येनेकेन विवर्णितम् ॥ १.५८॥
येनेकेनापि गदितं येनेकेनापि मोदितम् ।
येनेकेनापि यद्दत्तं येनकेनापि यत्कृतम् ॥ १.५९॥
यत्रयत्र शुभं कर्म यत्रयत्र च दुष्कृतम् ।
यद्यत्करोति सत्येन सर्वं मिथ्येति निश्चिनम् ॥ १.६०॥
इदं प्रपञ्चं यत्किञ्चित् यद्यज्जगति विद्यते ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ १.६१॥
श्री गुरुमूर्तिः ।
एवं श्रुत्वा निदाघस्तु ब्रह्मन् संशयवेष्टितः ।
ऋभुं पप्रच्छ पुनरप्यात्मविज्ञानसिद्धये ॥ १.६२॥
निदाघः ।
स्वामिन् मुमुक्षोःपुंसारान् ममारूपेण वस्तुना ।
प्रपञ्चितेन न फलं भवेदिति मे मतिः ॥ १.६३॥
यतस्सद्गदितं ब्रह्म तत्त्वमस्याद्यगोचरम् ।
अखण्डैकरसातीतं मोक्षातीतं च सद्गुरो ॥ १.६४॥
ज्ञेयत्वादिविहीनं तत् कथं ज्ञास्याम्यहं नु वा ।
तज्ज्ञानेन फलं किं वा मोक्षस्यैव फलत्वतः ॥ १.६५॥
फलमास्तिक्यबुद्ध्या स्यान् न चैवंभूतवस्तुनः ।
त्वदुक्त निश्चये सर्वसाङ्कर्यं च प्रसज्यते ॥ १.६६॥
यद्युक्त व्यतिरिक्तानां सर्वेषां स्यादनात्मता ।
हेयत्वान्नैव जिज्ञास्यं किञ्चिदप्यत्र सिध्यति ॥ १.६७॥
शशशृङ्ग समानत्वं यथाप्रोक्तमनात्मनाम् ।
अत्यन्तारूपवत्त्वेन तथा तत्सिद्धिरात्मनः ॥ १.६८॥
अथवा तत् तथैवास्तां अन्यथावापि मे गुरो ।
यज्ज्ञानेन भवान्मुक्तिर्भवेत् तद् ब्रूहि वेदितुम् ॥ १.६९॥
एवं उक्तो निदाघेन कुशाग्रमतिना परम् ।
ऋभुस्सन्तुष्टहृदयः पुनरेवाब्रवीदिदम् ॥ १.७०॥
ऋभुः ।