ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 24, कुल 91 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः । २१ ^१अभीक्ष्णमुच्चैर्ध्व^२नता प^३योमुचा घ^४नान्धकारीकृतशर्वरीष्वपि । तडित्प्रभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ १० ॥ अभीक्ष्णमिति ॥ अभीक्ष्णं मुहुर्मुहुः । 'मुहुर्मुहुः पुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः । उच्चैरुच्चस्वरेण ध्वनता शब्दं कुर्वता पयोमुचा मेघेन घनान्धकारीकृतशर्वरीष्वप्यघना- न्धकारा घनान्धकारा यथा संपद्यन्ते तथा कृताश्च ताः शर्वर्यो रात्रयो यथा तथाभूतासु तडित्प्रभया विद्युत्कान्त्या दर्शिता मार्गभूमयो यासां तास्तथोक्ता अभिसारिकाः स्त्रियो रागा- त्कान्तानुरागेण । संकेतमिति शेषः । प्रयान्ति गच्छन्ती- त्यर्थः । अभिसारिकालक्षणमुक्तममरसिंहेन—'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इति ॥ पयोधरैर्भीमगभीरनिस्वनै- स्त^५डिद्भिरुद्वेजितचेतसो भृशम् । कृतापराधानपि योषितः प्रिया- न्परिष्वजन्ते शयने निरन्तरम् ॥ ११ ॥ पयोधरैरिति ॥ भीमो भयानकोगभीरो गम्भीरो निस्वनो निर्घोषो येषां तैस्तथोक्तैः । 'स्वाननिर्घोषनिर्ह्रादनादनिस्वान- निस्वनाः' इत्यमरः । पयोधरैर्मेघैस्तडिद्भिर्विद्युद्भिश्च भृशम- त्यन्तमुद्वेजितमुद्विग्नं चेतोऽन्तःकरणं यासां तास्तथोक्ता यो- षितो नार्यः । 'स्त्री योषिदबला योषा नारी सीमन्तिनी १ 'सुतीक्ष्णम्'. २ 'ध्वनताम्'. ३ 'पयोमुचाम्'. ४ 'घनान्ध- कारावृत'. ५ 'ध्वनद्भिः'. ३