ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 26, कुल 91 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः । २३ मनं प्रसर्पितमितस्ततः संचरणशीलं ससाध्वसैः सभयैर्भे क- कुलैर्मण्डूकसमुदायैः । 'भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः' इत्यमरः । निरीक्षितं विलोकितं नवोदकं नूतनजलं निम्नस्य गम्भीरस्य देशस्याभिमुखम् । 'निम्नं गभीरं गम्भीरम्' इत्य- मरः । प्रयाति गच्छतीत्यर्थः ॥ वि॑पन्नपुष्पां नलिनीं समुत्सुका विहाय भृङ्गाः श्रुतिहारिनिस्वनाः । पतन्ति मूढाः शिखिनां प्रनृत्य॒तां कलापचक्रेषु नवोत्पलाशया ॥ १४ ॥ विपत्रेति ॥ समुत्सुका उत्कण्ठिताः श्रुतेः श्रवणस्य हारी । मनआह्लादकर इति यावत् । निस्वनः शब्दो येषां ते तथो- क्ता मूढा इदं न त्विदं तन्नलिनमिति विचाररहिता भृङ्गा भ्रमराः । 'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः । विगतानि पत्राणि दलानि यस्य तादृशं पुष्पं यस्याः सा तां तथोक्तां नलिनीं विहाय त्यक्त्वा प्रनृत्यतां नृत्यं कुर्वतां शिखि- नां मयूराणां कलापचक्रेषु बर्हमण्डलेषु नवोत्पलस्य नूतनकु- वलयस्याशया । भ्रमेणेति भावः । पतन्ति निपतन्तीत्यर्थः ॥ वनद्विपानां नवैवारिदस्वनै- र्मदान्वितानां ध्वन॒तां मुहुर्मुहुः । कपोलदेशा विमलोत्पलप्रभाः सभृङ्गयूथैर्मदवारिभिः श्रिताः ॥ १५ ॥ १ 'प्रफुल्लपत्रां'; 'विपन्नपुष्पाम्'. २ 'समुत्सुकाम्'. ३ 'निवृत्तः' ४ 'तोयद'. ५. 'खनताम्'. ६. 'श्रिताः'.