ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 32, कुल 91 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः । २९ तथोक्तः । 'स्तोमौघनिकरव्रातवारसंघातसंचयाः' इत्यमरः । एष कालो वर्षाकालः कान्तवत्प्रियवद्वधूनां स्त्रीणां शिरसि मूर्धनि मालतीभिर्मालतीकुसुमैः समेतां युक्तां वकुलमालां केसरस्रजं रचयति करोति । तथा विकसितनवपुष्पैः संफु- ल्लनूतनकुसुमैर्यूथिकाया मागधीलतायाः कुड्मलानि मुकुला- नि तैः । 'अथ मागधी । गणिका यूथिकाऽम्बष्ठा' इत्यमरः । 'कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । विकचानि विकसि- तानि नवानि नूतनानि यानि कदम्बानि कदम्बकुसुमानि तैश्च कर्णपूरं कर्णोत्तंसं रचयति करोतीत्यर्थः ॥ दधति वरकुचाग्रैरुन्नतैर्हारयष्टिं प्रतनुकसितदुकूलान्यायतः श्रोणिबिम्बैः । नवजलकणसेकादुद्गतां रोमराजीं ललितवलिविभङ्गेर्मध्यदेशैश्च नार्यः ॥ २५ ॥ दधतीति ॥ नार्यः स्त्रिय उन्नतैरूर्ध्वमुखैर्बरा उत्तमाः । पीना वर्तुलाश्चेति यावत् । ये कुचाः स्तनास्तेषामग्रैरग्रभागै- र्हारयष्टिं मुक्ताहारमायतैर्दीर्घैः श्रोणिबिम्बैः कटिपश्चाद्भागैः प्रतनूनि सूक्ष्माणि सितानि श्वेतवर्णानि यानि दुकूलानि वस्त्राणि तानि ललितानां सुन्दराणां वलीनां त्रिवलीनां वि- भङ्गा येषु तैस्तथोक्तैर्मध्यदेशैर्नवानां जलकणानां सेकादुद्ग- तामुत्पन्नां रोमराजीं रोमाञ्चपङ्क्तिं दधतीत्यर्थः ॥ नवजलकणसङ्गाच्छीततामादधानः कुसुमभरनतानां लासकः पादपानाम् । १ 'कुचयुगाग्रैः,' 'पृथुकुचाग्रैः'. २ 'राजिम्'. ३ 'त्रिवलिवलि- विभङ्गैः,' 'ललितवलिविभागैः'. ४ 'मध्यदेशे'. ५ 'तु'. ६ 'सेकात्'. ७ 'लालसः,' 'नाशकः'.