ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 33, कुल 91 में से
संदर्भ में पढ़ें३० ऋतुसंहारे जनित¹रुचिरगन्धः केतकीनां रजोभिः परिहरति² नभस्वान्प्रोषितानां³ मनांसि ॥२६॥ नवेति ॥ नवानां नूतनानां जलकणानां सङ्गात्संबन्धा- च्छीततां शैत्यमादधानो गृहन्कुसुमानां पुष्पाणां भरेण नता नम्रास्तेषां तथोक्तानां पादपानां वृक्षाणां लासकः संसर्गवान् । एतेन मान्द्यमुक्तम् । केतकीनां रजोभिः परागैः । 'परागः सुमनोरजः' इत्यमरः । जनित उत्पादितो रुचिरः सुन्दरो गन्धो यस्मिंस्तथोक्तो नभस्वान्वायुः प्रोषितानां पान्थजनानां मनांस्यन्तःकरणानि परिहरतीत्यर्थः ॥ ⁴जलधरविनतानामाश्रयोऽस्माकमुच्चै- रयमिति जलसेकैस्तोयदास्तोयनम्राः । अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥२७॥ जलधरेति ॥ तोयनम्रा जलभारनतास्तोयदा मेघा जल- धरेण विनतानां नम्राणामस्माकमुच्चैरून्नतोऽयं विन्ध्याचल आश्रय आधारः । भवतीति शेषः । इतीति हेतोरतिशय- मत्यन्तं परुषाः कठिनास्ताभिस्तथोक्ताभिर्ग्रीष्मवह्नेः शिखाभिः सम्यगुपजनित उत्पादितस्तापः संतापो यस्य तं तथोक्तं वि- न्ध्यं विन्ध्याद्रिं जलसेकैर्जलवर्षणैर्ह्लादयन्ति हर्षं प्रापयन्ती- वेत्युत्प्रेक्षा । उपकृतो हि विपन्नं परमुपकरोतीति भावः ॥ १. 'सुरभि'. २ 'व्यवहरति'; 'अपहरति'. ३ 'योषितानाम्'. ४ 'जलभरनमितानाम्'.