ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 41, कुल 91 में से
संदर्भ में पढ़ें३८ ऋतुसंहारे उत्फुल्लानि विकसितानि पङ्कजानि कमलानि यस्मिंस्तादृशं वनं जलं यस्यां तां तथोक्ताम् । 'जलम् । पयः कीलालम- मृतं जीवनं भुवनं वनम्' इत्यमरः । नलिनीं कमलिनीं विधुन्वन्विकम्पयन् । एतेन तस्मिन्सौगन्ध्यं शैत्यं चावेदि- तम् । नभस्वान्वायूर्यूनां तरुणानां मनः प्रसभमत्यन्तं चल- यति चञ्चलयतीत्यर्थः ॥ सोन्मादहंसमिथुनैरुपशोभितानि स्वेच्छप्रफुल्लकमलोत्पलभूषितानि । मन्दप्रभातपवनोद्गतवीचिमाला- न्युत्कण्ठयन्ति सहसा हृदयं सरांसि ॥११॥ सोन्मादेति ॥ सोन्मादानामुन्मादसहितानां हंसानां मरा- लानां मिथुनैर्द्वन्द्वैरुपशोभितानि भूषितानि । अपि च स्वच्छा- नि निर्मलानि प्रफुल्लानि च यानि कमलानि पद्मान्युत्पलानि नीलेन्दीवराणि च तैर्भूषितानि शोभितानि । मन्देन मन्थरेण प्रभातपवनेनोषःकालीनेन वायुनोद्गता उत्पन्ना वीचिमालास्त- रङ्गपङ्क्तयो येषु तानि तथोक्तानि सरांसि सरोवराणि । जनाना- मिति शेषः।हृदयं सहसोत्कण्ठयन्त्युत्कण्ठायुक्तं कुर्वन्तीत्यर्थः॥ नष्टं धनुर्बलभिदो जलदोदरेषु सौदामिनी स्फुरति नाद्य वियतपताका । धून्वन्ति पक्षपवनैर्न नभो बलाकाः पश्यन्ति नोन्नतमुखा गगनं मयूराः॥ १२ ॥ नष्टमिति ॥ अद्येदानीं जलदानां मेघानामुदरेषु गर्भेषु । १ 'स्वच्छानि फुल्ल.' २ 'मन्दं प्रभात'; 'मन्दप्रचार.' ३ 'पवनो- द्धत. ४ 'हृदयं प्रसभम्'. ५ 'नापि'.