ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 42, कुल 91 में से
संदर्भ में पढ़ेंदृश्यमानमिति शेषः । बलनामकं दैत्यं भिनत्ति विदारयति । हन्तीति यावत् । तस्य बलभिदो बलारातेरिन्द्रस्य धनुः का- र्मुकं नष्टं गतम् । न दृश्यत इत्यर्थः । वियत आकाशस्य पताका सौदामिनी तडिन्न स्फुरति न दीव्यति । बलाका बिसकण्ठिकाः । ‘बलाका बिसकण्ठिका’ इत्यमरः । पक्षाणां पत्राणां पवनैर्वातैः । ‘गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरु- हम्’ इत्यमरः । नभो न धुन्वन्ति न कम्पयन्ति । उन्नत- मूर्ध्वं मुखं वदनं मेघदिदृक्षया येषां ते तथोक्ता मयूरा बर्हि- णो गगनमाकाशं न पश्यन्ति नावलोकयन्तीत्यर्थः ॥
नृत्यप्रयोगरहिताञ्छिखिनो विहाय हंसानुपैति मदनो मधुरप्रगीतान् । १मुक्त्वा कदम्बकुटजार्जुनसर्जनीपा- न्सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥ १३ ॥
नृत्येति ॥ मदनः कंदर्पो नृत्यप्रयोगेन नर्तनप्रयोगेन रहिताञ्शिखिनो बर्हिणो विहाय त्यक्त्वा मधुरं प्रगीतं गानं येषां तांस्तथोक्तान्हंसानुपैति प्राप्नोति । कुसुमानां पुष्पाणा- मुद्गम उत्पत्तिस्तस्य श्रीः शोभा कदम्बो धूलिकदम्बः, कुटजः शक्रनामको वृक्षविशेषः, अर्जुनः ककुभवृक्षः, सर्जः शाल- वृक्षः, नीपः पूर्वोक्तकदम्बभिन्नकदम्बस्तान् । ‘अथ कुटजः शक्रः’ इत्यमरः । ‘इन्द्रद्रुः ककुभोऽर्जुनः’ इत्यमरः । मुक्त्वा त्यक्त्वा सप्तच्छदान्सप्तपर्णवृक्षानुपगता प्राप्तेत्यर्थः ॥
१ ‘त्यक्त्वा’.