ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 43, कुल 91 में से
संदर्भ में पढ़ें४० ऋतुसंहारे शेफालिकाकुसुमगन्ध^१मनोहराणि स्वस्थस्थिताण्डजकुल^२प्रतिनादितानि । पर्यन्तसंस्थितमृगीनयनोत्पलानि प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥१४॥ शेफालिकेति ॥ शेफालिका सुवहा तस्याः कुसुमानां पुष्पाणां गन्धेन मनोहराणि सुन्दराणि । 'शेफालिका तु सुव- हा निर्गुण्डी नीलिका च सा' इत्यमरः । खस्थमनुद्वेगं तीव्र- तराणि तापदावानलादिदुःखाभावाद्यथा भवति तथा स्थिता- नामुपविष्टाना मण्डजानां पक्षिणां कोकिलादीनां कुलैः समु- दायैः प्रतिनादितानि प्रतिध्वनितानि । पर्यन्ते संस्थितानां प्रान्तस्थितानां मृगीणां हरिणीनां नयनानि लोचनान्येवोत्प- लानि कुवलयानि येषु तानि तथोक्तान्युपवनान्युद्यानानि पुंसां मनांसि प्रोत्कण्ठयन्ति समुत्कण्ठितानि कुर्वन्तीत्यर्थः ॥ कह्लारपद्मकुमुदानि^३ मुहु^४र्विधुन्वं- स्तत्संगमादधिकशीतलतामुपेतः^५ । ^६उत्कण्ठयत्यतितरां पवनः प्रभाते पत्रान्तलग्नतुहि^७नाम्बुविधूयमानः ॥ १५ ॥ कह्लारेति ॥ कह्लारपद्मकुमुदानि कह्लारं सौगन्धिकम्, पद्मं नलिनम्, कुमुदं कैरवं तानि । 'सौगन्धिकं तु कह्लारम्' इत्यमरः । 'वा पुंसि पद्मं नलिनम्' इत्यमरः । 'सिते कुमु- दकैरवे' इत्यमरः । मुहुर्वारंवारं विधुन्वन् । तेषां संगमा- १ 'राग.' २ 'गण.' ३ 'कुसुमानि.' ४ 'मुदा.' ५ 'उपेत्य.' ६ 'सोत्कां करोति वनिताम्.' ७ 'तुहिनानि हरंस्तरूणाम्.'