ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 49, कुल 91 में से
संदर्भ में पढ़ें४६ ঋतुसंहारे याणां प्रेयसीनामसितानां कृष्णानां नयनानां नेत्राणां लक्ष्मीं शोभाम् । 'कृष्णे नीलासितश्यामकालश्यामलमेचकाः' इ- त्यमरः । 'लोचनं नयनं नेत्रम्' इत्यमरः । उत्पलेषु कमलेषु क्वणिता क्वणन्ती या कनककाञ्ची सुवर्णरशना तां मत्तहंस- स्वनेषून्मत्तमरालशब्देष्वधरस्योष्ठस्य रुचिरा सुन्दरा या शो- भा तां बन्धुजीवे बन्धूककुसुमे लक्षयित्वा दृष्ट्वा भ्रान्तचित्तः सन्नेदिति । रोदनं करोतीत्यर्थः ॥ स्त्रीणां विहाय वदनेषु शशांकलक्ष्मीं कामं च हंसवचनं मणिनूपुरेषु । बन्धूककान्तिमधरेषु मनोहरेषु कापि प्रयाति सुभगा शरदागमश्रीः ॥२५॥ स्त्रीणामिति ॥ सुभगा सुन्दरा या शरदागमस्य श्रीः शोभा। शशाङ्कस्य चन्द्रस्य लक्ष्मीं शोभां स्त्रीणां सुन्दरीणां वदनेषु मुखे- षु । कामं रमणीयं हंसवचनं मरालविरुतं च मणिनूपुरेषु मणि- खचितमञ्जीरेषु । बन्धूकस्य बन्धूककुसुमस्य कान्तिं च मनोहरेषु सुन्दरेष्वधरेषु विहाय त्यक्त्वा कापि कुत्रचिदपि प्रयाति गच्छ- तीत्यर्थः । एतेन हेमन्तागमः सूचितः । वसन्ततिलकावृत्तम् ॥ विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी विकसितनवकाशश्वेतवासो वसाना । कुमुदरुचिरकान्तिः कामिनीवोन्मदेयं प्रतिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् ॥२६॥ १ 'निनाय'. २ 'लक्ष्मीः.' ३ 'हास्ये विशुद्धवदने कुमुदाकरश्रीम्'; 'हास्ये विशुद्धवदने कुमुदाकरश्रीः'. ४ 'कान्तिः'. ५ 'विकसि- तनवकाशासंकुलालम्बिवस्त्रा'; कुसुमितवनकाशाव्याकुलालम्बिवासा'. ६ 'हासा'. ७ 'परिदिशतु'; 'उपदिशतु'.