ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 50, कुल 91 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः । ४७ विकचेति ॥ विकचं विकसितं कमलमेव वक्त्रं मुखं यस्याः सा तथोक्ता । पक्षे विकचं कमलमिव वक्त्रं यस्याः सेति । फुल्लानि प्रफुल्लानि नीलोत्पलानीन्दीवराण्येवाक्षिणी यस्याः सा तथोक्ता । पक्षे फुल्लानि नीलोत्पलानीवाक्षिणी यस्याः सेति । विकसितं विकाशं प्राप्तं नवकाशं नूतनं काश- कुसुममेव श्वेतवासः श्वेतवस्त्रम् । पक्षे विकसितनवकाशमिव श्वेतवासो वसाना । कुमुदेन कैरवेण सदृशी रुचिरा कान्ति- र्यस्याः सा तथोक्ता । पक्षे कुमुदमिव रुचिरा कान्तिर्यस्याः सेयं शरदुन्मदोत्कटमदा कामिनीव प्रेयसीव वो युष्माकं चेतसश्चित्तस्याग्र्यामुत्तमां प्रीतिं प्रतिदिशतु ददात्वित्यर्थः । मालिनीवृत्तमेतत् ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृत्तुसंहारे महाकाव्ये शरद्वर्णनं नाम तृतीयः सर्गः । चतुर्थः सर्गः । अथ क्रमप्राप्तं हेमन्तकालं वर्णयति— नवप्रवालोद्गमसंस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः । विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतोऽयम् ॥ १ ॥ नवेति ॥ नवानां नूतनानां प्रवालानां पल्लवानामुद्गम १ 'पुष्प'. २ 'प्रिये'.