ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 54, कुल 91 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः । ५१ पीनस्तनोरःस्थलभागशोभा- मासाद्य तत्पीडनजातखेदः । तृणाग्रलग्नैस्तुहिनैः पतद्भि- राक्रन्दतीवोषसि शीतकालः ॥ ७ ॥ पीनेति ॥ पीनौ पुष्टौ स्तनौ यत्र तादृशो य उरःस्थल- भागस्तस्य शोभामासाद्य प्राप्य तत्पीडनेन जातः संजातः खेदो दुःखं यस्य स तथोक्तः शीतकालः पतद्भिः प्रपतद्भि- रत एव तृणाग्रे तृणप्रान्ते लग्नानि संलग्नानि तैस्तथोक्तैस्तु- हिनैस्तुषारैरुषसि प्रभात आक्रन्दतीवेत्युत्प्रेक्षा ॥ प्रभूतशालिप्रसवैश्चितानि मृगाङ्गनायूथविभूषितानि । मनोहरक्रौञ्चनिनादितानि सीमान्तराण्युत्सुकयन्ति चेतः ॥ ८ ॥ प्रभूतेति ॥ प्रभूताः संभूता ये शालिप्रसवा धान्यानि तैश्चितानि व्याप्तानि । मृगाङ्गनानां हरिणरमणीनां यूथैः समुदायैर्विभूषितानि शोभितानि । मनोहराः सुन्दरा ये क्रौ- ञ्चाः पक्षिविशेषास्तैर्निनादितानि प्रतिनादितानि सीमान्तरा- णि सीम्नां प्रान्तभागाश्चेतः । अन्तस्येति शेषः । उत्सुकय- न्त्युत्कण्ठयन्तीत्यर्थः ॥ प्रफुल्लनीलोत्पलशोभितानि सोन्मादकादम्बविभूषितानि । १ 'उरस्थल'. २ 'लम्बैः' ३ 'प्रसूति'. ४ 'शरादिकादम्बविघट्टितानि'.