भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 55, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 55

५२ ऋतुसंहारे प्रसन्नतोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम् ॥ ९ ॥ प्रफुल्लेति ॥ प्रफुल्लैरुत्फुल्लैर्नीलोत्पलैरिन्दीवरैः शोभितानि भूषितानि । सोन्मादैरून्मादसहितैः कादम्बैः कलहंसैर्विभू- षितानि । प्रसन्नं निर्मलं तोयं जलं येषु तानि तथोक्तानि । सुशीतलानि सरांसि सरोवराणि पुंसां पुरुषाणां चेतांस्यन्तः- करणानि हरन्तीत्यर्थः ॥ पाकं व्रजन्ती हिमजातशीतै- राधूयमाना सततं मरुद्भिः । प्रिये प्रियङ्गुः प्रियविप्रयुक्ता विपाण्डुतां याति विलासिनीव ॥ १० ॥ पाकमिति ॥ हे प्रिये, हिमेन तुषारेण जातैः संजातैः शीतैः पाकं परिपाकं व्रजन्ती गच्छन्ती मरुद्भिर्वायुभिः सततं निरन्तरमाधूयमाना कम्पायमाना प्रियङ्गुर्गोवन्दिनी लता । 'श्यामा तु महिलाह्वया । लता गोवन्दिनी गुन्द्रा प्रियङ्गुः फलिनी फली' इत्यमरः । प्रियेण कान्तेन विप्रयुक्ता विला- सिनीव स्त्रीव । विपाण्डुतां विशेषेण पाण्डुतां याति । गच्छतीत्यर्थः ॥ पुष्पासवोमोदिसुगन्धिवक्त्रो निःश्वासवातैः सुरभीकृताङ्गः । १ 'सशैवलानि'. २ 'यूनाम्'. ३ 'सङ्गशीतैः'. ४ 'आमोद'. ९-१० श्लोकयोर्मध्येऽयमंशो दृश्यते— मार्गे समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः । प्रवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥