भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 60, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 60

पञ्चमः सर्गः । ५७ व्याकुला ग्रामसीमा ग्रामान्ताः प्रान्ता यस्मिन्स तथोक्तः । सततं निरन्तरमतिमनोज्ञोऽतिसुन्दरः क्रौञ्चमालाभिः क्रौञ्च- पङ्क्तिभिः परीतो युक्तो हिमयुक्त एष कालो हेमन्तकालो वः सुखं प्रदिशतु ददात्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविचरितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये हेमन्तवर्णनं नाम चतुर्थः सर्गः । पञ्चमः सर्गः । अथ क्रमप्राप्तं शिशिरं वर्णयति— १प्ररूढशाल्यंशुचयैर्मनोहरं २क्वचित्स्थितक्रौञ्चनिनाद३राजितम् । प्रकाम४कामं प्रमदाजनप्रियं वरोरु कालं शिशिराह्वयं शृणु ॥ १ ॥ प्ररूढेति ॥ वरावुत्कृष्टावूरू जङ्घे यस्यास्तस्याः संबोधने हे वरोरु, प्ररूढानां प्रवृद्धानां शालीनामंशुचयैर्मनोहरम् । क्वचित्पुस्तके ‘प्ररूढशालीक्षुचयावृतक्षितिम्’ इति पाठः । स तु रूढ एव । तत्र प्ररूढानां प्रवृद्धानां शालीनां धान्याना- मिक्षूणां च चयैः समूहैरावृताच्छादिता क्षितिः पृथ्‍वी यस्मि- न्निति समासः । क्वचित्कुत्रचिद्वृक्षशाखायां स्थितानामुपवि- १ ‘प्ररूढशालीक्षुचयैर्मनोहरम्’. २ ‘क्वचित्स्थितम्;’ ‘सुस्थस्थि’. ३ ‘शोभितम्’. ४ ‘काम’. ६