ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 61, कुल 91 में से
संदर्भ में पढ़ें५८ ऋतुसंहारे
ष्टानां क्रौञ्चानां पक्षिविशेषाणां निनादैर्विरुतै राजितं शोभितं तं तथोक्तम् । प्रकाममत्यन्तं कामो यस्मिंस्तं तथोक्तम् । प्रमदाजनस्य स्त्रीजनस्य प्रियमिष्टं शिशिर इत्याह्वया यस्य तं तथोक्तं कालं समयं शृण्वाकर्णयेत्यर्थः । वंशस्थवृत्तमेतत् । तल्लक्षणं तु पूर्वमुक्तम् ॥ निरुद्धवातायनमन्दिरोदरं हुताशनो भानुमतो गभस्तयः । गुरूणि वासांस्यबलाः सयौवनाः प्रयान्ति कालेऽत्रे जनस्य सेव्यताम् ॥ २ ॥ निरुद्धेति ॥ अत्र काले शिशिरकाले निरुद्धान्यवरुद्धानि वातायनानि गवाक्षा यस्य तादृशस्य मन्दिरस्योदरं गर्भदेशः । ‘वातायनं गवाक्षः स्यात्’ इत्यमरः । हुताशनोऽग्निर्भानुमतः सूर्यस्य गभस्तयः किरणाः । गुरूणि वासांसि च वस्त्राणि । सयौवनास्तारुण्यसहिता अबलाः स्त्रियो जनस्य लोकस्य से- व्यतां प्रयान्ति प्राप्नुवन्तीति वचनविपरिणामेनान्वयः ॥ न चन्दनं चन्द्रमरीचिशीतलं न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् । न वायवः सान्द्रतुषारशीतला जनस्य चित्तं रमयन्ति सांप्रतम् ॥ ३ ॥ नेति ॥ सांप्रतमिदानीं चन्द्रमरीचय इव चन्द्ररश्मय इव शीतलं शिशिरं चन्दनं जनस्य चित्तं न रमयति । तथा
१ 'अथ'.