ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 62, कुल 91 में से
संदर्भ में पढ़ेंपञ्चमः सर्गः । ५९ शरदिन्दुवन्निर्मलं स्वच्छं हर्म्यतलं हर्म्यपृष्ठं प्रासादतलं जनस्य चित्तं न रमयति । तथा सान्द्रेण घनेन तुषारेण हिमेन शीतलाः शिशिरा वायवः पवना अपि जनस्य चित्तं न रमयन्तीत्यर्थः ॥ तुषारसंघातनिपातशीतलाः शशाङ्कभाभिः शिशिरीकृताः पुनः । विपाण्डुतारागणजिह्मभूषिता जनस्य सेव्या न भवन्ति रात्रयः ॥ ४ ॥ तुषारेति ॥ तुषारसंघातस्य हिमसमूहस्य निपातेन शी- तलाः पुनः शशाङ्कस्य चन्द्रस्य भाः कान्तयस्ताभिः शिशि- रीकृताः । एतेन शैत्याधिक्यं सूचितम् । विपाण्डुना पाण्डु- रवर्णेन तारागणेन नक्षत्रसमूहेन जिह्मं वक्रं यथा भवति तथा भूषिता शोभिता रात्रयः शर्वर्यो जनस्य लोकस्य सेव्याः सेवितुमुपभोक्तुं योग्या न भवन्तीत्यर्थः ॥ गृहीतताम्बूलविलेपनस्रजः सुखासवामोदितवक्त्रपङ्कजाः । प्रकामकालागुरुधूपवासितं विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥ ५ ॥ गृहीतेति ॥ गृहीतास्ताम्बूलं च विलेपनं च कस्तूर्यादि स्रजः कुसुममालाश्च याभिस्तास्तथोक्ताः । सुखयतीति सुखः सुखकरो य आसवो मधु तेनामोदितं सुगन्धितं वक्त्रपङ्कजं १ 'शीतला'. २ 'शिशिरीकृताः'. ३ 'चारुभूषणाः'. ४ 'सुरासवा;' 'पुष्पासवा'. ५ 'वासिताम्'. ६ 'शय्याम्'. ७ 'उत्सुकस्त्रियः'.