ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 63, कुल 91 में से
संदर्भ में पढ़ें६० ऋतुसंहारे मुखकमलं यासां तास्तथोक्ताः । उत्सुका उत्कण्ठिताः स्त्रियः प्रकाममत्यन्तं कालागुरोः कृष्णागुरोर्धूपेन वासितं शय्यागृहं शय्यामन्दिरं विशन्ति प्रविशन्तीत्यर्थः ॥ कृतापराधान्बहुशोऽपि तर्जिता^१- न्सवेपथून्साध्वसलुप्त^२चेतसः । निरीक्ष्य भर्तॄन्सुरताभिलाषिणः स्त्रियोऽपराधान्समदा विसस्मरुः^३ ॥ ६ ॥ कृतापराधानिति ॥ समदा मदसहिताः स्त्रियः कामिन्यः कृतोऽपराधो यैस्तथोक्तानत एव बहुशो बहुवारमपि तर्जि- तान्वेपथुभिः कम्पैः सहिता युक्तास्तांस्तथोक्तान् । साध्वसं भयम् । 'साध्वसं भयम्' इत्यमरः । पूर्वकृतापराधमूलकं तेन लुप्तं विनष्टं चेतश्चित्तं येषां ते तथोक्तानभर्तॄन्प्रियान्सुरताभि- लाषिणः संभोगाभिलाषिणो निरीक्ष्य वीक्ष्य अपराधान्पूर्वकृता- न्विसस्मरुरपराधस्मरणेन विप्रियंनोचुरित्यर्थः । वंशस्थवृत्तमे- तत् । तल्लक्षणं तूक्तम् ॥ प्रकामकामैर्युवभिः^४ सनिर्दयं^३ निशासुदीर्घास्वभिरामिताश्चिरम्^५ । भ्रमन्ति^६ मन्दं^७ श्रमखेदितोरसः^८ क्षपावसाने नवयौवनाः स्त्रियः ॥ ७ ॥ १ 'अभितर्जितान्'. २ 'मन्द'. ३ 'न सस्मरुः'. ३ 'सुरतेऽति- निर्दयम्'; 'युवभिः सुनिर्दयम्'. ५ 'दीर्घास्वभिभाविता भृशम्;' 'गाढं दयितैश्चिरं दृढम्'. ६ 'भवन्ति; धमन्ति'. ७ 'मन्द'. ८ 'खेदितो रवः'. 'मोदितोरसः'. 'खेदितोरवः'.