ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 68, कुल 91 में से
संदर्भ में पढ़ेंपञ्चमः सर्गः । ६५ नैशं सुरतसमये संभोगकाले यो वेष आकारस्तमाशु झटिति प्रहाय त्यक्त्वा दिवसयोग्यं वेषं दधतीत्यर्थः ॥ नखपदचितभागान्वीक्षमाणाः स्तनाग्रा- नधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः । अभिमतरसमेतं नन्दयन्त्यस्तरुण्यः सवितुरुदयकाले भूषयन्त्याननानि ॥ १५ ॥ नखपदेति ॥ नखपदैर्नखक्षतैश्चिता व्याप्ता भागा येषां तांस्तथोक्तान्स्तनाग्रान्कुचाग्रान्वीक्षमाणा आलोकयन्त्यः । द- न्तभिन्नं रदनखण्डितमधरः किसलयमिव पल्लवमिवेति तस्याग्रं स्पृशन्त्यः स्पर्शं कुर्वन्त्य एतमभितो मनोऽभिलषितो यो रसस्तं नन्दयन्त्योऽभिनन्दयन्त्यस्तरुण्यो विलासवत्यः सवितुः सूर्य- स्योदयकाले प्रभात आननानि मुखानि भूषयन्त्यलंकुर्वन्तीत्यर्थः प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः प्रवलसुरतकेलिर्जातकंदर्पदर्पः । प्रियजनरहितानां चित्तसंतापहेतुः शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम् १६ प्रचुरेति ॥ प्रचुरो बहुलो गुडविकारः खण्डशर्करादि- र्यसिंस्तथोक्तो जातः । स्वादवो ये शालयो धान्यानीक्षव इक्षुदण्डाश्च तै रम्यो रमणीयः । प्रबला अत्याधिकाः सुरत- केलयो यत्र तथाविधः । जातः संजातः कंदर्पदर्पो मन्मथा- १ 'नखपदकृतभङ्गान्'. २ 'स्तनान्तान्'. ३ 'रतवेशम्'. ४ 'प्रसृत'. ५ 'शान्त.' ६ 'तेऽस्तु'.