भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 69, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 69

६६ ऋतुसंहारे धिक्यं यस्मिन्स तथोक्तः । प्रियजनेन कान्तजनेन रहिता- नाम् । विरहिणीनामित्यर्थः । चित्तसंतापस्य हेतुः कारणमेष शिशिरसमयः शीतकालो वो युष्माकं श्रेयसे कल्याणाय नित्यं सदास्त्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये शिशिरवर्णनं नाम पञ्चमः सर्गः । षष्ठः सर्गः । अथ क्रमप्राप्तं वसन्तकालं वर्णयति— प्रफुल्लचूताङ्कुरतीक्ष्णसायको द्विरेफमालाविलसद्धनुर्गुणः । मनांसि १वेद्धुं २सुरतप्रसङ्गिनां वसन्तयोद्धा३ समुपागतः प्रिये ॥ १ ॥ प्रफुल्लेति ॥ हे प्रिये, प्रफुल्लस्य चूतस्याम्रवृक्षस्याङ्कुरा एव तीक्ष्णा निशिताः सायका बाणा यस्य स तथोक्तः । द्विरेफाणां भ्रमराणां माला पङ्क्तिरेव विलसन्धनुर्गुणो यस्य स तथोक्तो वसन्तयोद्धा सुरतप्रसङ्गिनां मनांसि वेद्धुं विदारयितुं समुपागत आगत इत्यर्थः । वंशस्थवृत्तमेतत् । लक्षणं तूक्तम् ॥ द्रुमाः सपुष्पाः सलिलं ४सपद्मं स्त्रियः सकामाः ५पवनः ६सुगन्धिः । १ 'भत्तुम्'. २ 'सुरतोत्सुकानाम्'. ३ 'योधः' ४ 'सुपद्मम्'- ५ 'पवनाः' ६ 'सुगन्धयः'.