ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 74, कुल 91 में से
संदर्भ में पढ़ेंस्तनेषु कुचेषु कठिनः । मध्येषु मध्यभागेषु निम्नॊ गभीरः । जघनेषु पीनः पुष्ट इत्यनेन प्रकारेणानङ्गः कामोऽद्य बहुधा बहुप्रकारेण स्थित उपस्थित इत्यर्थः ॥ अङ्गानि निद्रालसवि१भ्रमाणि वाक्यानि किंचिन्मद२लालसानि । भ्रूक्षेपजिह्मानि च वीक्षितानि चकार कामः ३प्रमदाजनानाम् ॥ ११ ॥ अङ्गानीति ॥ कामः प्रमदाजनानां कामिनीनामङ्गानि शरीराणि निद्रयालसा विभ्रमा शृङ्गारवेषा येषु तानि तथो- क्तानि । वाक्यानि किंचिदीषन्मदेन लालसानि चाटूनि । वीक्षितानि प्रेक्षणानि भ्रूक्षेपेण जिह्मानि कुटिलानि च चकार कृतवानित्यर्थः ॥ प्रियङ्गुकालीयककुं४कुमाक्तं ५स्तनेषु गौरेषु विलासिनीभिः । आलिप्यते चन्दनमङ्गनाभि- र्मदालसाभिर्मृगनाभियुक्तम् ॥ १२ ॥ प्रियङ्ग्विति ॥ विलासिनीभिर्विलासवतीभिर्मदेनालसा आलस्ययुक्तास्ताभिस्तथोक्ताभिरङ्गनाभिः स्त्रीभिर्गौरेषु गौरव- र्णेषु स्तनेषु कुचेषु प्रियङ्गुः श्यामा लता, कालीयकं जाय- कम्, कुङ्कुमं केसरं च तैराक्तं युक्तं मृगनाभियुक्तं कस्तूरी- युक्तं चन्दनमालिप्यते लाप्यत इत्यर्थः ॥ १. 'विह्वलानि'. २. 'मदिरालसानि;' 'मदसालसानि'. ३. 'प्रमदो- त्तमानाम्.' ४. 'कुङ्कुमानि' . ५. 'स्तनाङ्गरागेषु विसर्जितानि'; 'स्तना- ङ्गरागेषु विचर्चितानि'.