भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 75, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 75

७२ ऋतुसंहारे गुरूणि वासांसि विहाय तूर्णं तनूनि लाक्षारसरञ्जितानि । सुगन्धिकालागुरुधूपितानि धत्ते जनः काममदालसाङ्गः ॥ १३ ॥ गुरूणीति ॥ काममदेनालसमङ्गं यस्य स तथोक्तो जनो गुरूणि वासांसि वस्त्राणि तूर्णं सत्वरं विहाय त्यक्त्वा तनूनि सूक्ष्माणि लाक्षारसेन रञ्जितान्यारक्तानि सुगन्धिना सुरभिणा कालागुरुणा कृष्णागुरुणा धूपितानि संजातधूपानि वासांसि धत्ते दधातीत्यर्थः ॥ पुंस्कोकिलश्चूतरसासवेन मत्तः प्रियां चुम्बति रागहृष्टः । कूजद्विरेफोऽप्ययमम्बुजस्थः प्रियं प्रियायाः प्रकरोति चाटु ॥ १४ ॥ पुंस्कोकिलेति ॥ रागेण हृष्टो हर्षितश्चूतस्याम्रवृक्षस्य रस एवासवस्तेन मत्तः प्रमत्तः पुंस्कोकिलः प्रियां चुम्बति । अ- म्बुजे कमले तिष्ठति स तथोक्तः कूजन्गूञ्जन्नयं द्विरेफो भ्रम- रोऽपि प्रियाया भ्रमर्याः प्रियमिष्टं चाटु प्रकरोतीत्यर्थः ॥ ताम्रप्रवालस्तवकावनम्रा- श्चूतद्रुमाः पुष्पितचारुशाखाः । १. 'शिरांसि'. २. 'कामशरानुविद्धः'. ३. 'चूतरसेन मत्तः प्रिया- मुखं चुम्बति सादरोऽयम्'. ४. 'गुञ्जन्'. ५. 'अधिकः प्रमत्तः'. ६. 'क्षिप्रम्'. ७. 'चाटुम्'; 'क्षिप्रम्'. ८. 'प्रवालनम्रास्तवकावतंसाः'.