भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 76, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 76

षष्ठः सर्गः । ७३ कुर्वन्ति कामं¹ पवनावधूताः² पर्युत्सुकं³ मानसमङ्गनानाम् ॥ १५ ॥ ताम्रेति ॥ ताम्राणामारक्तानां प्रवालानां पल्लवानां स्तब- कैर्गुच्छैरवनम्रा नताः । पुष्पिताः संजातपुष्पा अत एव चारवः सुन्दराः शाखा येषां ते तथोक्ताः । पवनेन वायुनावधूताः कम्पिताश्चूतद्रुमा आम्रवृक्षा अङ्गनानां वनितानां मानसमन्तः- करणं काममत्यन्तं पर्युत्सुकमुत्कण्ठितं कुर्वन्तीत्यर्थः ॥ आ मूलतो विद्रुमरागताम्रं⁴ सपल्लवाः⁵ पुष्पचयं दधानाः । कुर्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानाम् ॥ १६ ॥ आ मूलेति ॥ आ मूलतो मूलादारभ्य विद्रुमस्य प्रवा- लस्य रागवत्ताम्रमारक्तं पुष्पचयं कुसुमसमूहं दधाना धारय- न्तः सपल्लवाः पत्रसहिता अशोका वञ्जुलद्रुमा निरीक्ष्यमाणा अवलोक्यमानाः सन्तो नवयौवनानां विप्रयुक्तानां तरुणीनां चं⁶ हृदयं सशोकं कुर्वन्तीत्यर्थः ॥ मत्तद्विरेफपरिचुम्बितचारुपुष्पा मन्दानिलाकुलितनम्रमृदुप्रवालाः । कुर्वन्ति कामिमनसां सहसोत्सुकत्वं चूताभिरामकलिकाः⁷ समवेक्ष्यमाणाः ॥ १७॥ १. 'कान्ते'. २. 'पवनाभिभूताः'. ३. 'समुत्सुकम्'. ४. 'ताम्राः'. ५. 'सपल्लवम्'. ६. 'चारु'. ७. 'चूता विमुक्तकलिकाः'; 'बालातिमु- क्तकलिकाः'.