भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 77, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 77

७४ ऋतुसंहारे मत्तेति ॥ मत्तैरुन्मत्तैर्द्विरेफैर्भ्रमरैः परिचुम्बितानि चारू- णि सुन्दराणि पुष्पाणि यासां तास्तथोक्ताः । मन्दैरनतिप्रब- लैरनिलैः पवनैराकुलिता आन्दोलिता नम्रा नम्रीभूता मृदवः कोमलाश्च प्रवाला नवकिसलया यासां तास्तथोक्ताः । चूत- स्याग्रस्याभिरामाः सुन्दराः कलिकासमवेक्ष्यमाणा अवलोक्य- मानाः सत्यः कामिमनसां सहसाकस्मादुत्सुकत्वमौत्सुक्यं कुर्व- न्तीत्यर्थः ॥ वसन्ततिलकावृत्तमेतत् । लक्षणं तूक्तम् ॥ १कान्तामुखद्युतिजुषामपि चोद्गतानां शोभां परां कुरवकद्रुममञ्जरीणाम् । दृष्ट्वा प्रिये २सहृदयस्य भवेन्न कस्य कंदर्पबाण३पतनव्यथितं हि चेतः ॥ १८ ॥ कान्तेति ॥ हे प्रिये, कान्तामुखस्य रमणीवदनस्य द्युतिं कान्तिं जुषन्ते सेवन्त इति तेषां तथोक्तानाम् । अपि च किंचोद्गतानां निर्गतानाम् । कुरवकद्रुमा अम्लानवृक्षास्तेषां मञ्जरीणाम् । 'अम्लानस्तु महासहा । तत्र शोणे कुरबकः' इत्यमरः । परामुत्कृष्टां शोभां दृष्ट्वावलोक्य कस्य सहृदयस्य चेतोऽन्तःकरणं कंदर्पस्य कामस्य बाणानां शराणां पतनेन निपातेन व्यथितं पीडितं न भवेत् । अपि तु सर्वस्यापी- त्यर्थः । हिः पादपूरणार्थः ॥ आदीप्तवह्निसदृशैर्मरुतावधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः । १. 'कान्तामुखद्युतिमनोहरमुद्धतानाम्'; 'कान्ताननद्युतिमुषामचि- रोद्गतानाम्'; 'नानामुखद्युतिजुषामपि चोद्गतानाम्'. २. 'हि पथिकस्य'. ३. 'निकरैर्व्यथितम्'; 'पतनव्यथनम्'.