भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 78, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 78

षष्ठः सर्गः । ७५ सद्यो वसन्तसमये हि¹ समाचितेयं रक्तांशुका नववधूरिव भाति भूमिः ॥ १९ ॥ आदीप्तेति ॥ वसन्तसमये वसन्तकाले सर्वत्रेतस्ततः सद्यः सत्वरमादीप्तेनाभिमुख्येन प्रज्वलितेन वह्निना सदृशैस्त- थोक्तैः । आरक्तैरित्यर्थः । मरुता पवनेनावधूताः कम्पिता- स्तैस्तथोक्तैः । कुसुमैः पुष्पैरावनम्रा नतास्तैस्तथोक्तैः किंशुक- वनैः पलाशवृक्षसमुदायैः । ‘पलाशे किंशुकः पर्णी वातपोथः’ इत्यमरः ॥ समाचितेयं भूमिः पृथिवी रक्तांशुका रक्तवसना नववधूरिव नूतनस्त्रीव भाति शोभत इत्यर्थः । हि निश्चितम् ॥ किं किंशुकैः शुकमुखच्छविभिर्न भिन्नं² किं कर्णिकारकुसुमैर्न कृतं नु दग्धम् । यत्कोकिलः⁴ पुनरयं मधुरैर्वचोभि- र्यूनां मनः सुवदनानिहितं निहन्ति ॥ २० ॥ किं किंशुकैरिति ॥ सुवदनायां रमणीयमुखायां निहितं स्थापितं यूनां तरुणानां मनोऽन्तःकरणं शुकस्य कीरस्य मुख- स्य वदनस्य छविरिव छविः कान्तिर्येषां तैस्तथोक्तैः किंशुकैः पलाशकुसुमैः किं न भिन्नं न विदारितम् । कर्णिकारस्य द्रुमो- त्पलस्य कुसुमैः पुष्पैश्च । नु निश्चयम् । किं दग्धं न कृतम् । यत्पुनरयं कोकिलो मधुरैर्वचोभिर्वचनैर्निहन्तीत्यर्थः ॥ १. ‘न समागतेयम्’; ‘समुपागते हि’. २. ‘दग्धम्’. ३. ‘कृतं मनो- ज्ञम्’; ‘हृतं मनोज्ञैः’. ४. ‘कोकिलाः’. ५. ‘पुरुरवैः’, ‘पुनरमी’. ६. ‘सुवदने नियतं हरन्ति’.

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या) · पृष्ठ 78, कुल 91 में से · BharatKosha