भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 79, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 79

७६ ऋतुसंहारे पुंस्कोकिलैः कलवचोभिरुपात्तहर्षैः कूजद्भिरुन्मदकलानि वेचांसि भृङ्गैः । लज्जान्वितं सविनयं हृदयं क्षणेन पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ॥ २१ ॥ पुंस्कोकिलैरिति ॥ कलमव्यक्तमधुरं वचो वचनं येषां तैस्तथोक्तैः । उपात्तः संप्राप्तो हर्षो येषां तैस्तथोक्तैः पुंस्को- किलैः । उन्मदेनोत्कटमदेन कलान्यव्यक्तमधुराणि वचांसि वचनानि कूजद्भिर्भृङ्गैर्भ्रमरैः । लज्जया त्रपयानन्वितं युक्तं स- विनयं विनयसहितं वधूनां स्त्रीणां हृदयं कुलगृहेऽपि क्षणेन क्षणमात्रेण पर्याकुलं व्याकुलं कृतमित्यर्थः ॥ आकम्पयन्कुसुमिताः सहकारशाखा विस्तारयन्परभृतस्य वचांसि दिक्षु । वायुर्विवाति हृदयानि हरन्नैराणां नीहारपातविगमात्सुँभगो वसन्ते ॥ २२ ॥ आकम्पयन्निति ॥ वसन्ते वसन्तकाले नीहारस्य हिमस्य यः पातः पतनं तस्य विगमान्नाशात्सुभगः सुन्दरो वायुः पवनः कुसुमिताः संजातकुसुमाः सहकारस्यातिसौरभस्याम्र- वृक्षस्य शाखाः । ‘आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः’ इत्यमरः । आकम्पयन्सन् । दिक्षु परभृतस्य कोकिलस्य । ‘वनप्रियः परभृतः कोकिलः पिकः’ इत्यमरः । वचांसि वचनानि विस्तारयन् । नराणां पुंसां हृदयानि हरन्नपहर- न्निवाति विशेषेण वहतीत्यर्थः ॥ १. ‘फलरसैः समुपात्तहर्षैः’. २. ‘विलोचनानि’; ‘वचांसि धीरम्’. ३. ‘वधूनाम्’. ४. ‘विमलः.’