भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 80, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 80

षष्ठः सर्गः । ७७ कुन्दैः सविभ्रमवधूहसितावदातै- रुद्द्योतितान्युपवनानि मनोहराणि । चित्तं मुनेरपि हरन्ति निवृत्तरागं प्रागेव रागमलिनानि मनांसि यूनाम् ॥२३॥ कुन्दैरिति ॥ सविभ्रमाणि विभ्रमसहितानि यानि वधूह- सितानि रमणीहास्यानि तानीवावदातानि धवलानि तैस्तथो- क्तैः । 'अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः' इत्यमरः । कुन्दैः कुन्दकुसुमैरुद्द्योतितानि दीप्तानि । शोभितानीति याव- त् । मनोहराण्युपवनान्यारामाः । निवृत्तोऽनुरागो यस्मात्तत्तथो- क्तं मुनेरपि चित्तं हरन्त्यपहरन्ति । प्रागेव मुनिचित्तापहर- णात्प्रागेव रागेण मलिनानि यूनां मनांसि हरन्तीत्यर्थः ॥ आलम्बिहेमरसनाः स्तनसक्तहाराः कंदर्पदर्पशिथिलीकृतगात्रयष्ट्यः । मासे मधौ मधुरकोकिलभृङ्गनादै- र्नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥२४॥ आलम्बीति ॥ आलम्बिन्यो लम्बमाना हेमरसनाः सुव- र्णमेखला यासां तास्तथोक्ताः । स्तनेषु कुचेषु सक्ताः संसक्ता हारा यासां तास्तथोक्ताः । कंदर्पस्य मन्मथस्य दर्पेनाधिक्येन शिथिलीकृता गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता नार्यः स्त्रियो मधौ मासे वसन्ते नराणां हृदयं मधुरैः कोकिलाश्च भृङ्गाश्च तेषां नादैर्विरुतैः सह प्रसभमत्यन्तं हरन्तीत्यर्थः ॥ १. 'प्रायेण रागचलितानि'; 'प्रागेव रागमखिलानि'. २. 'पुंसाम्'. ३. 'प्रालम्बि'. ४. 'रावैः'. ५. 'रामाः'.