भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 81, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 81

७८ ऋतुसंहारे नानामनोज्ञकुसुमद्रुमभूषितान्ता- न्हृष्टान्यपुष्टनिनदाकुलसानुदेशान् । शैलेयजालपरिणद्धशिलातलौघा- न्दृष्ट्वा जनः क्षितिभृतो मुदमेति सर्वः ॥२५॥ नानेति ॥ सर्वो जनो लोको नाना नानाजातीया मनोज्ञाः सुन्दरा ये कुसुमद्रुमाः पुष्पवृक्षास्तैर्भूषिताः शोभिता अन्ताः प्रान्तभागा येषां तांस्तथोक्तान् । हृष्टा हर्षिता येऽन्यपुष्टाः कोकिलास्तेषां निनदैः शब्दैराकुला व्याकुलाः सानुदेशाः प्रस्थप्रदेशा येषां तांस्तथोक्तान् । ‘स्नुः प्रस्थः सानुरस्त्रियाम्’ इत्यमरः । शैलेयजालेन परिणद्धा व्याप्ताः शिलातलानामो- घाः समुदाया येषां तांस्तथोक्तान्क्षितिभृतः पर्वतान्दृष्ट्वा मुदं हर्षमेति प्राप्नोतीत्यर्थः ॥ नेत्रे निमीलयति रोदिति र्याति शोकं घ्राणं करेण विरुणद्धि विरौति चोच्चैः । कान्तावियोगपरिखेदितचित्तवृत्ति- र्दृष्ट्वाध्वगः कुसुमितान्सहकारवृक्षान् ॥२६॥ नेत्रे इति ॥ कान्ताया वियोगेन विरहेण परिखेदिता खिन्ना चित्तवृत्तिर्यस्य स तथोक्तोऽध्वगः पथिकः कुसुमिता- न्मञ्जरीयुतान्सहकारवृक्षानाम्रवृक्षान् । ‘आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः’ इत्यमरः । दृष्ट्वावलोक्य नेत्रे लोचने निमीलयति पिधत्ते । तद्दर्शनस्य संतापाधिक्यजनकत्वात् । १. ‘भूषिताग्रान्’; ‘भूषिताङ्गान्’. २. ‘संधिदेशान्’. ३. ‘तलान्तान्’; ‘गुहान्तान्’. ४. ‘समुपैति सर्वान्’. ५. ‘निमीलति; विरोदिति’. ६. ‘याति मोहम्’; ‘जातमोहान्’. ७. ‘प्राणान्’. ८. ‘नरः’.