ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 83, कुल 91 में से
संदर्भ में पढ़ें८० ऋतुसंहारे समदेति ॥ रम्यः सुन्दरः कुसुममासो वसन्तसमयः सम- दा मदसहिता ये मधुकरा भ्रमरास्तेषां कोकिलानां च नादैः। कुसुमिताः संजातकुसुमाः सहकारा आम्रवृक्षास्तैः कर्णिकारै- र्द्रुमोत्पलैः । सुतीक्ष्णैरतिनिशितैरिषुभिर्बाणैरिव । मन्मथोद्वे- जनायोद्वेजयन्मानिनीनां मानवतीनां मानसं तुदति व्यथय- तीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥ आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनु- र्ज्या यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम्। मत्तेभो मलयानलः परभृताँ यद्वन्दिनो लोकजि- त्सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः२८ आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः । संबाधितं परभृतस्य मदाकुलस्य श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥ रम्यः प्रदोषसमयः स्फुटचन्द्रभासः पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः । मत्तालियूथविरुतं निशि शीधुपानं सर्वं रसायनमिदं कुसुमायुधस्य ॥ छायां जनः समभिवाञ्छति पादपानां नक्तं तथेच्छति पुनः किरणं सुधांशोः । हर्म्ये प्रयाति शयितुं सुखशीतलं च कान्तां च गाढमुपगूहति शीतलत्वात् ॥ मलयपवनविद्धः कोकिलेनाभिरम्यः सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः । विविधमधुपयूथैर्वेष्ट्यमानः समन्ता- द्भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥