ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 86, कुल 91 में से
संदर्भ में पढ़ेंमहाकविश्रीकालिदासकृतं शृङ्गारतिलकम् । बाहू द्वौ च मृणालमास्यकमलं लावण्यलीलाजलं श्रोणीतीर्थशिला च नेत्रशफरी धम्मिल्लशैवालकम् । कान्तायाः स्तनचक्रवाकयुगलं कंदर्पबाणानलै- र्दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम्॥ आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये । व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः कंदर्पे हरनेत्रदीधितिरियं प्राणेश्वरे मन्मथः ॥२॥ इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन । अङ्गानि चम्पकदलैः स विधाय वेधा कान्ते कथं घटितवानुपलेन चेतः ॥३॥ एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्गबलाधिपत्यम् । किं मे करिष्यति भवद्वदनारविन्दे जानामि नो नयनखञ्जनयुग्ममेतत् ॥४॥ ये ये खञ्जनमेकमेव कमले पश्यन्ति दैवात्क्वचि- त्ते सर्वे कवयो भवन्ति सुतरां प्रख्यातपृथ्वीभुजः ।