ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 87, कुल 91 में से
संदर्भ में पढ़ें[ २ ] त्वद्वक्त्राम्बुजनेत्रखञ्जनयुगं पश्यन्ति ये ये जना- स्तेते मन्मथबाणजालविकला मुग्धे किमित्यद्भुतम् ५ झटिति प्रविश गेहे मा बहिस्तिष्ठ कान्ते ग्रहणसमयवेला वर्तते शीतरश्मेः । तव मुखमकलङ्कं वीक्ष्य नूनं स राहु- र्ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय ॥ ६ ॥ कस्तूरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेत्राञ्जनम् । रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्धितः किं रुष्टासि गजेन्द्रमत्तगमने किं वा शिशुस्ते पतिः ७ नाहं नो मम वल्लभश्च कुपितः सुप्तो न वा सुन्दरो वृद्धो नो न च वालकः कृशांतनुर्न व्याधितो नो शठः। मां दृष्ट्वा नवयौवनां शशिमुखीं कंदर्पबाणाहतो मुक्तो दैत्यगुरुः प्रियेण पुरतः पश्चाद्गतो विह्वलः ८ समायाते कान्ते कथमपि च कालेन बहुना कथाभिर्देशानां सखि रजनिरर्धं गतवती । ततो यावल्लीलाकलहकुपितास्मि प्रियतमे सपत्नीव प्राची दिगियमभवत्तावदरुणा ॥ ९ ॥ श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः क्लेशः श्लाघ्यतरः सुपङ्कनिचयैः श्लाघ्योऽतिदाहोऽनलैः यत्कान्ताकुचपार्श्वबाहुलतिकाहिन्दोललीलासुखं लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते १०