ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 90, कुल 91 में से
संदर्भ में पढ़ें[ ५ ] वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ २२ ॥ हे रोहिणि त्वमसि रात्रिकरस्य भार्या एनं निवारय पतिं सखि दुर्विनीतम् । जालान्तरेण मम वासगृहं प्रविश्य श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ २३ ॥ अविदितसुखदुःखं निर्गुणं वस्तु किंचि- जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । मम तु मतमनङ्गस्मेरतारुण्यघूर्ण- न्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥ २४ ॥ एनं पयोधरयुगं पतितं निरीक्ष्य खेदं वृथा वहसि किं हरिणायताक्षि । स्तब्धो विवेकरहितो जनतापकारी योऽत्युन्नतः प्रपततीति किमत्र चित्रम् ॥ २५ ॥ अयि मन्मथचूतमञ्जरि श्रवणव्यायतचारुलोचने । अपहृत्य मनः क्व यासि त- त्किमराजन्यकमत्र राजते ॥ २६ ॥ यदि कथमपि दैवाद्दुर्गमार्गे स्खलित्वा विदलति तनुमध्या दीयतां नौ न दोषः । पृथुनिबिडकुचाभ्यां वर्त्म पश्यावुरुद्धं कथयितुमिव नेत्रे कर्णमूले प्रयातः ॥ २७ ॥