भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 91, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 91

[ ६ ] कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि शोचामि यत्तव किमत्र विरोधमन्यत् । आश्लेषमर्पय मदर्पितपूर्वमुच्चै- रुच्चैः समर्पय मदर्पितचुम्बनं च ॥ २८ ॥ मानं मानिनि मुञ्च देवि दयिते मिथ्यावचः श्रूयते कः कोपो निजसेवके यदि वचः सत्यं त्वया गृह्यते । दोर्भ्यां बन्धनमाशु दन्तदलनं पीनस्तनास्फालनं दोषश्चेन्ममते कटाक्षविशिखैः शस्त्रैः प्रहारं कुरु ॥ २९ ॥ किं मां निरीक्षसि घटेन कटिस्थितेन वक्रेण चारुपरिमीलितलोचनेन । अन्यं निरीक्ष पुरुषं तव भाग्ययोग्यं नाहं घटाङ्कितकटिं प्रमदां भजामि ॥ ३० ॥ सत्यं ब्रवीषि मकरध्वजबाणपीड नाहं त्वदर्पितदृशा परिचिन्तयामि । दासोऽद्य मे विघटितस्तव तुल्यरूपः सोऽयं भवेन्नहि भवेदिति मे वितर्कः ॥ ३१ ॥ इति महाकविश्रीकालिदासकृतं शृङ्गारतिलकं समाप्तम् ॥