रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 104, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः १७ [ द्वारमानेन ज्येष्ठप्रतिमापरिमाणम् ] द्वारोच्छ्रयोऽष्टधा कार्यो भागमेकं परित्यजेत् । सप्तभागं त्रिधा कृत्वा द्विभागा प्रतिमा भवेत् ॥१५॥ १५। पूर्वं प्रासादमानेन प्रतिमामानमभिहितम्, इदानीं प्रासादद्वारमानेनापि तद्वक्तुं प्रथमं ज्येष्ठप्रतिमापरिमाणमाह—द्वारोच्छ्रय इति । आदौ द्वारस्यौन्नत्यम् अष्टधा विभज्यैकमंशं परित्यज्यावशिष्टान् सप्तांशान् त्रिधा विभज्य द्विभागेन प्रतिमाः कुर्यात् । एकांशेन च पीठिकेत्यनुक्त- मप्यत्रोह्यम् । तथा च बृहत्संहितायाम्— देवागारद्वारस्याष्टांशोनस्य यस्तृतीयांशः। तत्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा ॥ इति (अः ५७, ३ श्लो०) द्वारमानाष्टभागोना प्रतिमा स्यात् सपिण्डिका । द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका ॥ (अः ५५, १६ श्लो०) इति च । अष्टांशोनस्येति कृताष्टभागस्य द्वारमानस्याष्टमभागेन हीनस्येत्यर्थः । द्वारप्रमाणमाह तत्रैव प्रासादलक्षणमधिकृत्य— यो विस्तारो भवेद् यस्य द्विगुणा तत्समुन्नतिः । उच्छ्रायाद् यस्तृतीयांशस्तेन तुल्या कटिः स्मृता ॥ विस्ताराद्धं भवेद् गर्भो भित्तयोऽन्याः समन्ततः । गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् ॥ (अः ५५, १-२ श्लो०) इति । तथा च दशहस्तविस्तृते प्रासादे गर्भः पञ्चहस्तः गर्भस्य पादेन तुर्यांशेन द्वारविस्तारो भवे- दिति सपादहस्तप्रमाणा द्वारस्य विस्तृतिः उन्नतिश्च सार्द्धद्विहस्तपरिमाणा । एवञ्च—द्वासप्ततिहस्त- विस्तृते प्रासादे षट्त्रिंशद्धस्तमितो गर्भः, गर्भपादसममानतया च नवहस्ता द्वारस्य विस्तृतिस्तद्- द्विगुणोऽष्टादशहस्तश्चोच्छ्रयः तस्य चाष्टधा विभक्तस्य एकमंशं षडङ्गुलाधिकहस्तद्वयं परित्यज्य शिष्टानांमष्टादशाङ्गुलाधिकपञ्चदशहस्तानां त्रिभागीकृतानां भागद्वयपरिमिता द्वादशाङ्गुलाधिकदश- हस्ता प्रतिमा भवेदिति निष्कर्षः । एतच्च ‘एकहस्ते तु प्रासादे मूर्त्तिरेकादशाङ्गुले’(११ श्लो०)ति यदुक्तं ततोऽन्यादृशमेवेति मन्तव्यम्, निरुक्तद्वारमानत एकहस्तविस्तृतप्रासादे द्वारस्य षडङ्गुलत्वेन यथोक्तभागवशात् प्रतिमाया अष्टाविंशतियवपरिमाणत्वप्रसक्तेः । समराङ्गणसूत्रधारे तूत्तममध्यमाधममूर्त्तीः प्रकृत्य— (भव ? तच्च) द्वारं त्रिधा (चत्वा ? भक्त्वा) पीठं भागेन कल्पयेत् ।' (ता ? द्वा) भ्यां (तु) प्रतिमा कार्या ज्येष्ठा (स्या ? यां) मानमीदृशम् ॥ (अः ७०, १४७ श्लो०) इति यदुत्तमप्रतिमापरिमाणमुक्तं तत् प्रकृतग्रन्थस्य कनिष्ठप्रतिमामानानुरूपम् । तथा कनिष्ठमूर्त्ति- परिमाणे—