भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 105, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 105

१८ | देवतामूर्त्तिप्रकरणम्

[ मध्यमप्रतिमापरिमाणम् ] द्वारं विभज्य नवधा भागमेकं परित्यजेत् । अष्टौ भागांस्त्रिधा कृत्वा द्विभागे प्रतिमा भवेत् । [ कनिष्ठप्रतिमापरिमाणम् ] त्रिभागैर्भाजिते द्वारे द्विभागेऽर्चा प्रकीर्त्तिता ॥१६॥ इति प्रासाद्द्वारमानेन प्रतिमाप्रमाणम् । ........हीनायां विदध्याद् द्वारमष्टधा । ए(व ? क) मुत्सृज्य शेषेण ****** ॥ (अः ७०, १४९ श्लो०) इत्यपि यदुक्तं तत्तु प्रक्रान्तश्लोकानुसारोति दृश्यते । एवम् अस्माभिरुपरिष्टात् प्रदर्शयिष्यमाणं तदुक्तमध्यमप्रतिमापरिमाणमपि वक्ष्यमाणमध्यमप्रतिमापरिमाणानुसारोति ज्ञेयम् । न चैवं समराङ्गणसूत्रधारप्रामाण्यात् प्रकृतेऽपि ग्रन्थे वैपरीत्येन अधममध्यमोत्तमप्रतिमापरिमाणलक्षकतया श्लोकानां परिपाटीः स्वीकृत्य तदेकवाक्यता करणीयेति वाच्यम्, बृहत्संहितायां मध्यमादिभेद- मनादृत्य केवलमेतच्छ्लोकोक्तपरिमाणस्यैव ग्रहणेनास्यैवोत्तमत्वस्वीकारात् । मत्स्यपुराणेऽपि— द्वारोच्छ्रयस्य यन्मानमष्टधा तत्तु कारयेत् । भागमेकं ततस्त्यक्त्वा परिशिष्टन्तु यद् भवेत् ॥ भागद्वयेन प्रतिमा........... । ( अ० २५८, २४-२५ श्लो० ) इति द्वारमानेनैकमेव प्रतिमापरिमाणमुक्तमिति सर्वं सुसमञ्जसम् । १६। मध्यमाधमप्रतिमापरिमाणमाह—द्वारमिति त्रिभागैरिति च । स्पष्टोऽर्थः । मध्यम- प्रतिमालक्षणमाह समराङ्गणसूत्रधारे— मध्यायां नवधा द्वारं कृ ( ते ? त्वै ) कं भागमुत्सृजेत् । शेषान् भागांस्त्रिधा कृत्वा पीठं भागेन कल्पयेत् ॥ अर्चातुभागाभ्याम्........... । इति । ( अ० ७०, १४८-१४९ श्लो० ) अधमप्रतिमापरिमाणमप्याह तत्रैव—‘हीनायां विदध्याद् द्वारमष्टधे’त्यादि प्रागेवोल्लिखितम् । द्वारप्रमाणायाः प्रतिमाया विनियोगमाह समराङ्गणसूत्रधारे— ‘यात्रार्था प्रतिमा द्वारप्रमाणेन विधीयते । इति । ( अ० ७-१४६ ) यात्रार्था उत्सवार्थं निर्मिता । द्वारमानेन प्रतिमापरिमाणेऽन्येऽपि विशेषाः समराङ्गणसूत्रधारतो जिज्ञासुभिर्विज्ञेया । प्रतिमानां मुखाद्यवयवपरिमाणादिकञ्च मत्स्यपुराण ( अ० २५८ )-बृहत्संहिता ( अ० ५७ )- काश्यपशिल्प ( अ० ५० )-समराङ्गणसूत्रधारादिषु ( अ० ७६ ) द्रष्टव्यम् ।