भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 106, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 106

प्रथमोऽध्यायः १६ [ गृहपूज्यायाः प्रतिमायाः परिमाणम् ] आरभ्यैकाङ्गुलादूर्ध्वं पर्यन्ते द्वादशाङ्गुलम्। गृहेषु प्रतिमा पूज्या नाधिका शस्यते ततः ॥१७॥ [ देवगृहोचितप्रतिमापरिमाणम् ] तदूर्ध्वान्नवहस्तान्ता पूजनीया सुरालये। [ बहिरर्चनीयप्रतिमापरिमाणम् ] दशहस्तादितो याऽर्चा प्रासादेन विनाऽर्चयेत् ॥१८॥ १७। इदानीं कुत्र कीदृशी प्रतिमा पूजनीयेति वक्तुं प्रथमं गृहोचितायाः प्रतिमायाः परिमाण- माह—आरभ्येति । एकाङ्गुलादारभ्य उच्छ्रायेण द्वादशाङ्गुलपर्यन्ता प्रतिमा गृहेषु पूज्या । स्पष्टमुक्तं मत्स्यपुराणे— अङ्गुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु। गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥ ( अ० २५८, २२ श्लो० ) इति। वितस्तिर्द्वादशाङ्गुलम्। १८। देवालयपूज्यामाह तदूर्ध्वमिति। द्वादशाङ्गुलतोऽष्टहस्तपरिमाणं यावत् प्रतिमा सुरालये पूजनीया। तथा च मात्स्ये— 'आषोडशा तु प्रासादे कर्तव्या नाधिका ततः' इति। ( अ० २५८.२३ ) 'आषोडशा' षोडश वितस्तिपर्यन्ता अष्टहस्तपर्यन्तेति यावत्, प्रासाद इति देवालय इत्यर्थः। एतदेकवाक्यताविधित्सयैव 'नवहस्तान्ता' इत्यस्य नव हस्ताः परिमाणं यस्याः सा नवहस्ता, सा अन्ते यस्याः त्रयोदशाङ्गुलाद्यष्टहस्तान्तायाः प्रतिमायाः सा तथेत्यतद्गुणसंविज्ञानव्यधिकरण- बहुव्रीहिणा तादृशोऽर्थः कष्टकल्पोऽपि युक्त इत्युत्पश्यामः। दशहस्तादित इति। दशहस्तायाः प्रतिमाया आदिरादिभूता प्रतिमा ताम् आरभ्य नवहस्त- प्रतिमामारभ्येत्यर्थः, न तु दशहस्तप्रतिमामारभ्येति यथाश्रुतार्थः करणीयः, पूर्वोक्तमत्स्य- पुराणवचनेन नवहस्तायाः प्रतिमाया अपि प्रासादे पूजननिषेधात्, सम्भवति च तद्वचनेन सहैकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात्। इत्थञ्च—'दशादिकरवृद्धा च' (१९) इति वक्ष्यमाण- वाक्येन दशहस्तप्रतिमामारभ्य पञ्चचत्वारिंशद्धस्तां यावच्चतुष्क्यां पूजनविधानादियमेकैव नवहस्ता प्रतिमा वर्त्तते, यस्याः पूजास्थानं किमपि नोपदिष्टं ग्रन्थकृता। इदमत्र मनस्यापतति,—प्रासादेन विनाऽर्चयेदित्यनेन सामान्यत आसां दशहस्तादिप्रतिमानां प्रासादे पूजां निषिध्य क्व तर्हीमाः पूजनीया इत्यपेक्षायां दशादिकरवृद्धेति विशेषोऽभिहितो ग्रन्थ- कृतेति। अत्र च पक्षे 'नवहस्तान्ता' इत्यस्य 'दशहस्तादित' इत्यस्य च यथाश्रुत एवार्थः करणीयः