भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 111, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 111

२४ देवतामूर्त्तिप्रकरणम् स्वामिनं घातयेन्नूना करालवदना तथा । अधिका शिल्पिनं हन्ति कृशा चैवार्थनाशिनी ॥२७॥ वक्रनासातिदुःखाय संक्षिप्ताङ्गा भयङ्करी । चिपिटा दुःखशोकाय आधिपत्यविनाशिनी ॥२८॥ दुःखदा हीनवक्त्रा तु पाणिपादकृशा तथा । हीनाङ्गा हीनजङ्घा च भ्रमोन्मादकरी नृणाम् ॥२९॥ शुष्कवक्त्रा तु राजानं कटिहीना च या भवेत् । पाणिपादविहीनायां जायते नरको महान् ॥३०॥ जङ्घाहीना तु या त्वर्चा शत्रु-कल्याणकारिणी । पुत्रमित्रविनाशाय हीना वक्षःस्थलेन या ॥३१॥ २७-३१। एते पञ्च श्लोकाः सर्वात्मना मत्स्यपुराणीय (अ० २५९, १६-२० श्लो०)-श्लोक- पञ्चकमनुकुर्वते । यच्च क्वचित् कश्चिद् वर्णभेदोऽस्ति तन्मात्रं प्रदर्श्यते—‘आधिपत्यविनाशिनी’ (२८ श्लो०) इत्यत्र मात्स्ये ‘अनेत्रा नेत्रनाशिनी’ (१८ श्लो०) इति पाठः, एवं ‘पाणिपादविहीनायां’ (३० श्लो) इत्यत्र ‘पाणिपादविहीनो यो’ (१९ श्लो०) इति पाठः। ‘जङ्घाहीनदेवतार्चा’ (३१ श्लो०) इत्यत्र ‘जङ्घाजानुविहीना च’ (२० श्लो०) इति पाठः। समराङ्गणसूत्रधारे— निहन्ति कारकं रौद्रा दीनरूपा च शिल्पिनम् । कृशा व्या (धि ? धिं) विनाशञ्च कुर्यात् कारयितुः सदा ॥ कृशोदरी तु दुर्भिक्षं विरूपा चानपत्यताम् ॥ ( अ० ७७, ७-८ श्लो० ) इत्यन्यदेव फलं तत्तदङ्गविकृतायाः प्रतिमायाः प्राह । तथा बृहत्संहितायाम्— नृपभयमल्पङ्गतायां हीनाङ्गायामकल्पता कर्तुः । शातोदर्यां क्षुद्भयमर्थविनाशः कृशाङ्गायाम् । मरणन्तु सक्षतायां शस्त्रनिपातेन निर्दिशेत् कर्तुः ॥ ( अ, ५७, ५०-५१ ) इति । परमत्र दृष्ट्यवस्थानादिभेदेनाप्यशुभप्रतिमालक्षणमुक्तम् । यथा— वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः । अन्धत्वमूर्द्ध्वदृष्ट्या करोति चिन्तामधोमुखी दृष्टिः ॥ ( अ० ५७, ५१-५२ श्लो० ) इति ।