रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 110, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः २३ धातुरत्नविलेपोत्था व्यङ्गाः संस्कारयोग्याः । काष्ठपाषाणजा भग्नाः संस्कारार्हा न देवताः ॥२५॥ [ बहिरायतनस्थाप्या देवताः ] भैरवः शस्यते लोके प्रत्यायतनसंस्थितः । न मूलायतने कार्यो भैरवस्तु भयङ्करः । नारसिंहो वराहो वा तथान्येऽपि भयङ्कराः ॥२६॥ [ अशुभप्रतिमालक्षणम् ] नाधिकाङ्गा न हीनाङ्गाः कर्तव्या देवताः क्वचित् । धातुजां रत्नजां वापि अगाधे वा जलेऽम्बुधौ । यानमारोप्य जीर्णाङ्गां छाद्य वस्त्रादिना नयेत् ॥ ४ ॥ वादिन्त्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् । यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने । कूपवापीतडागादेर्जीर्णोद्धारे महाफलम् ॥ ५ ॥ शिल्परत्ने च— दोषे लघुत्तरे बिम्बं नैव त्याज्यं कदाचन । बाहुच्छेदे करच्छेदे पादच्छेदे तथैव च ॥ तथैव स्फुटिते भिन्ने यस्मिन्नवयवे गते । वैरूप्यं जायते यस्य तत्त्याज्यं प्रायशो भवेत् ॥ अङ्गुल्यादिपरिच्छेदे बन्धनं शस्यते बुधैः । महादोषसमायुक्ते सान्निध्यं लक्ष्यते यदि । तथैव बद्ध्वा संशोध्य प्रायश्चित्तं समाचरेत् ॥ २६। भैरव इत्यादि। भैरवो कालभैरवो वटुकभैरवस्त्रिपुरभैरवश्च महादेवस्य मूर्त्तिविशेषः, प्रत्यायतनसंस्थितः वस्तुबहिर्वाटीस्थः शस्यते प्रशस्तो भवति, बहिरावास एव स्थापनीय इत्यर्थः। मूलायतने न कार्यो न स्थापनीयः। नारसिंहो वराहो वा तथा अन्येऽपि भयङ्करा देवता मूलायतने न कार्याः। तदुक्तं मत्स्यपुराणे समानानुपूर्व्या— भैरवः शस्यते लोके प्रत्यायतनसंस्थितः । न मूलायतने कार्यो भैरवस्तु भयङ्करः ॥ नारसिंहो वराहो वा तथान्येऽपि भयङ्कराः ॥ इति । (२५९अ० १४-१५ श्लो०)