रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 109, कुल 335 में से
संदर्भ में पढ़ें३२ देवतामूर्त्तिप्रकरणम् अतीताब्दशता या स्यान्मूर्त्तिः स्थाप्या महत्तमैः । खण्डिता स्फुटिताप्यर्च्य्या अन्यथा दुःखदायिका ॥२४॥ स्फटिकं सूर्य्यकान्तञ्च चन्द्रकान्तमिति त्रिधा । स्फटिकस्यैव भेदाः स्युः काममोक्षार्थदाः क्रमात् ॥ श्रियं कामं तथाऽऽरोग्यमृद्धिं पुत्रं जयं सुखम् । लभते पद्मरागादिविम्बानां क्रमशॊऽर्चनात् ॥ बिम्बवृक्षा, यथा— चन्दनं देवदारुश्च शमीपिप्पलशिंशपाः । खदिरासनमातुलूङ्गमधूका बकुलस्तथा ॥ पद्मकं कर्णिकारश्च विप्रादीनां त्रयं त्रयम् । क्रमादारवबिम्बानां विज्ञेयास्तरवः शुभाः ॥ २४। इदानीं जीर्णोद्धारविधिं संक्षेपेण कथयिष्यन् आदौ जीर्णत्वेऽप्यपरित्याज्यां प्रति- मामाह—अतीताब्दशतेत्यादि। महत्तमैर्महापुरुषैः स्थाप्या स्थापनयोग्या या मूर्त्तिः देवताबिम्बम् अतीताब्दशता विगतशतवर्षा सती खण्डिता भग्ना, स्फुटिता विदीर्णापि सा अर्च्य्या पूजनीया, अन्यथा नोचेत् पूजिता स्यात् दुःखदायिका अशुभप्रदा भवेदिति शेषः । शतस्य वर्षाणामप- गमे यदि प्रतिमा भग्ना स्फुटिता वा स्यात्, तथापि तां पूजयेदित्युक्तमनेन । व्यक्तिविशेषप्रतिष्ठितानां मूर्त्तीनामत्याज्यतामाह शिवलिङ्गमधिकृत्याग्निपुराणम्— असुरैर्मुनिभिर्गीर्वाणैस्तन्त्रविद्भिः प्रतिष्ठितम् । जीर्णं वाऽप्यथवा भग्नं विधिनापि न चालयेत् ॥ (अ० १०३, १९ श्लो०) भङ्गविशेषे ग्राह्याग्राह्यत्वमुक्तं ग्रन्थकारेण तस्यैव रूपमण्डने— अङ्गप्रत्यङ्गभग्नां तु मूर्त्तिं धीमान् विसर्जयेत् । नखाभरणमालास्त्रभग्नां तां न विसर्जयेत् ॥ इति । शुक्रनीतिसारे च देवालये मानहीनां मूर्त्तिं भग्नां न धारयेत् । अग्निपुराणेऽपि सप्तषष्टितमाध्याये— जीर्णोद्धारविधिं वक्ष्ये भूपितां स्नपयेद् गुरुः । अचलां विन्यसेद् गेहे अतिजीर्णां परित्यजेत् ॥ १ ॥ व्यङ्गां भग्नाञ्च शैलाद्यां न्यसेदन्याञ्च पूर्ववत् । संहारविधिना तन्न तत्त्वान् संहृत्य देशिकः ॥ २ ॥ सहस्त्रं नारसिंहेन हुत्वा तामुद्धरेद् गुरुः । दार्वीं दाहयेद् वह्नौ शैलजां प्रक्षिपेज्जले ॥ ३ ॥