रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 108, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः २१ [ गर्भगृहप्रमाणेन ज्येष्ठादिप्रतिमाकथनम् ] गर्भगृहत्रिभागेन ज्येष्ठाऽर्चा कथिता बुधैः । मध्यमा च दशांशेन (शोना) पञ्चांशेना (शोना) कनीयसी ॥२१॥ सप्तांशे गर्भगृहे तु द्वौ भागौ परिवर्जयेत् । पञ्चभागो भवेद्देवः शयनस्थः सुखावहः ॥२२॥ अष्टलोहमयी मूर्त्तिः शैलरत्नमयी तथा । श्रेष्ठवृक्षमयी वाऽपि प्रवालादिमयी शुभा ॥२३॥ २१ । गर्भेत्यादि । त्रिभागीकृतस्य गर्भगृहस्य भागेनैकेन कृता अर्चा ज्येष्ठा, षोडशधा विभक्तस्य गर्भगृहस्य दशांशोना अर्थात् सार्द्धपादप्रमाणा प्रतिमा मध्यमा ; तथा पञ्चांशोना प्रतिमा कनीयसी कनिष्ठा इत्यर्थः । अत्र यद्यपि ‘त्रिभागेन’ इति शुद्धपाठसमीपचर्यया ‘दशांशेन’ इत्यत्राप्यसन्दिग्धत्वेन प्रतीय- मानः पाठः परिवृत्तिबुद्धिं विलुम्पति, तथापि ‘पञ्चांशेना’ इति विकृतपाठदर्शनात्तस्य च प्रकृत्यनुसन्धित्सया ‘पञ्चांशोना’ इति पाठः प्रथमतः शुद्धत्वेन बुद्धिम आरोहति, ततश्च मध्यमत्वा- दिक्रमान्यथानुपपत्त्या सर्वत्रैव ‘ऊना’ इति पाठः सम्यक्तया प्रतिभातीति स एवास्माभिरनुसृतः । क्रमानुपपत्तिस्तु— अङ्गुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु । गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥ इत्यादिवचनादूनप्रमाणाया एव प्रतिमाया ज्यैष्ठं प्रतीयते, प्रमाणाधिकायास्तु कानिष्ठ्यम् । इत्थञ्च गर्भगृहदशांशेन निर्मिता प्रतिमा प्रमाणाधिकेति तस्याः कानिष्ठ्ये प्राप्ते, पञ्चांशेन निर्मिता तूनप्रमाणेति तस्या अपि मध्यमत्वे प्राप्ते तदुभयविपरीतं प्रमाणाधिकायाः प्रतिमाया माध्यमिकत्वमूनप्रमाणायाश्च कानिष्ठ्यम् उपदिशन् यथाश्रुतः पाठः क्रमदुःस्थ इति हेयपक्ष एव निक्षेप्सव्यः । तदेतत् सर्वं विस्पष्टमुक्तं स्वयं ग्रन्थकारेण तदीयरूपमण्डने— तृतीयांशेन गर्भस्य प्रासादे प्रतिमोत्तमा । मध्यमा स्वदशांशोना पञ्चांशोना कनीयसी ॥ इति २३ । अष्टलोहबिम्बानि, यथा— सौवर्णं राजतं ताम्रं पैत्तलं कांस्यमायसम् । सैसकं त्र्यापुषञ्चेति लौहं बिम्बं तथाऽष्टधा ॥ बिम्बरत्नानि, यथा— स्फटिकं पद्मरागञ्च वज्रं नीलं हिरण्मयम् । वैदूर्यं विद्रुमं पुष्पं रत्नबिम्बं तथाऽष्टधा ॥