भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 113, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 113

३६ देवतामूर्तिप्रकरणम् अपचारेण नराणामुपसर्गः पापसञ्चयाद् भवति । संसूचयन्त्यतिदिशान्तरिक्षभौमां तथोत्पातः ॥३७॥ मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् । तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत ॥ ३८ ॥ [ दिव्याद्भुतम् ] दिव्यं ग्रहर्क्षवैकृतम्... ... ... [ आन्तरिक्षाद्भुतम् ] ... ... ...उल्कानिर्घातपवनपरिवेशाः । गन्धर्वपुर(पुरपुर?)न्दरचापांसि(पादि?) यदान्तरिक्षं तत् ॥३६॥ अत्र ते वर्णयिष्यामि यदुवाच महातपाः । अत्रये वृद्धगर्गस्तु सर्वधर्मभृतां वरः ॥ (अ० २२९, २श्लो० ) इति । तेषाम् अद्भुतानां सङ्क्षेपः समासेन संग्रहस्तु प्रकृतेरन्यत्वं स्वभावस्यान्यथाभावः वैपरीत्यमिति यावत् । तथा च बृहत्संहिताविवृतौ उत्पलभट्टधृतसमाससंहितायाम्— यः प्रकृतिविपर्यासः सर्वः संक्षेपतः स उत्पातः । क्षिति गगनदिव्यजातो यथोत्तरं गुरुतरो भवति ॥ इति । ३७ । संसूचयन्तीति । सर्वाङ्गक्षतमिदं श्लोकार्द्धं कथं प्रतिक्रियेतेति पर्याकुलैरस्माभिर्मूले संशोधनप्रयासः परित्यक्तः । परमर्थग्रहार्थं संवादिप्रमाणमुद्ध्रियते । तथा च बृहत्संहितायां यथोक्तपूर्वार्द्धात् परम्— ‘संसूचयन्ति दिव्यान्तरिक्षभौमांस्त उत्पाताः’ ( अ० ४५, २ श्लो० ) । इति प्रकृतार्द्धसमार्थकः पाठः । ‘नराणाम् अपचारेण पापसञ्चयो भवति पापसञ्चयादुपसर्गा उपद्रवाः । तथा च गर्गः— अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्मतः । नरापचारान्नियतमुपसर्गः प्रवर्त्तते ॥ इति । ततो दिव्यान्तरिक्षभौमा उत्पाताः तान् उपसर्गान् संसूचयन्ति ।’ इति तद्विवृतौ उत्पलभट्टः । ३९ । इदानीमुत्पातान् विभजन् दिव्यस्वरूपमाह—दिव्यमिति । ग्रहाणाम् आदित्या-