भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 114, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 114

प्रथमोऽध्यायः २७ [ भौमाद्भुतम् ] भौमं चरस्थिरभवं... ... ... [ एषां शान्तिनिवर्त्तनीयत्वानिवर्त्तनीयत्वविकल्पः ] तच्छान्तिभिराहतं शममुपैति । नाभसमुपैति मृदुतां शमीत न दिव्यं वदन्त्येके ॥४०॥ दीनाम् ऋक्षाणाम् अश्विन्‍यादिनक्षत्राणां यद् वैकृतम् अन्यथाभावस्तद् दिव्यम् अद्भुतमिति शेषः । अत्र प्रकृतोऽप्युत्पातो लिङ्गभेदाद् 'दिव्येन' न सम्बध्यते एवमुत्तरत्रापि । यद्वा वैकृतमेवात्र विशेष्यम् , ग्रहर्क्षकृतं यद् वैकृतं तद् दिव्यमित्यर्थः । आन्तरिक्षमाह—उल्केत्यादि । उल्कास्वरूपमाह बृहत्संहितायाम्— 'दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः' ( अ० ३३, १ श्लो० ) इति । केचित् पुनर्लोकानां शुभाशुभसूचनाय लोकपालास्तान्यस्त्राण्येवोल्का इत्याहुः । तथा चोत्पल- भट्टधृतगर्गः— स्वास्त्राणि संसृजन्त्येते शुभाशुभनिवेदिनः । लोकपाला महात्मानो लोकानां ज्वलितानि तु ॥ इति । निर्घात इति । निर्घातमाह बृहत्संहिताविवृतौ उत्पलभट्टधृतगर्गः— यदाऽन्तरिक्षे बलवान् मारुतो मरुताहतः । पतत्यधः स निर्घातो भवेदनिलसम्भवः ॥ इति । पवनो विकृतो वायुः । परिवेश इति । तत्स्वरूपमाह बृहत्संहितायाम्— सम्मूर्च्छिता रवीन्द्रोः किरणाः पवनेन मण्डलीभूताः । नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेशाः ॥ इति । गन्धर्वपुरम् आकाशे दृश्यमानं पुराकृति प्रसिद्धम् । इन्द्रचापम् आकाशे दृश्यमानं धनुराकृति चिह्नम् । तथा च बृहत्संहितायाम्— सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे । वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥ इति । प्रकारान्तरमाह उत्पलभट्टधृतकाश्यपः— अनन्तकुलजाता ये पन्नगाः कामरूपिणः । तेषां निश्वाससम्भूतमिन्द्रचापं प्रचक्षते ॥ इति । एते यत् तदान्तरिक्षम् अद्भुतमिति । गन्धर्वपुरन्द्रेत्यत्र एकं 'पुर'पदं लेखकप्रमादात् पतितमिति प्रतिभाति । 'चापांसी'त्यपपाठः । ४०। भौममुत्पातमाह—भौममिति । चरस्थिरभवमिति चरेभ्यः स्थिरेभ्यश्च वस्तुभ्यो

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक) · पृष्ठ 114, कुल 335 में से · BharatKosha