रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 115, कुल 335 में से
संदर्भ में पढ़ें३८ देवतामूर्त्तिप्रकरणम् दिव्यमपि शममुपैति प्रभूतकनान्नगोमहीदानैः । रुद्रायतने भूमेर्गोर्दानात् कोटिहोमाच्च ॥ ४१ ॥ भवतीति तादृशं यत् तद् भौमम् । उत्पलभट्टस्तु बृहत्संहितायाम्—'चराणां वस्तूनां स्थैर्यं स्थिराणां चरत्वं तदुद्भवम्' इत्याह । भौमनाभसयोः शान्तिकर्मनिवर्त्त्यत्वमाह—तदिति । तद् भौमम् अद्भुतं शान्तिभिः शान्ति- कर्मभिराहृतं निवारितं सत् शमं शान्तिमुपैति । नाभसम् आन्तरिक्षम् अद्भुतं शान्तिभिराहृत- मित्येव, मृदुतां मन्दीभावम् उपैति । अत्र मृदुतामुपैतीत्यनेन भौमं यथा शाम्येन्न तथा नाभसमित्यायाति । दिव्योत्पातस्य शान्तिनिवर्त्त्यत्वे विकल्पमाह—नेति । दिव्यं न शान्तिमुपैति न वा मृदुतां यातीत्येके महर्षयो वदन्ति । तथा चोत्पलभट्टधृतकाश्यपः— भौमं शान्तिहतं नाशमुपगच्छति मार्दवम् । नाभसं न शमं याति दिव्यमुत्पातदर्शनम् ॥ इति । अत्र 'शमीते'त्यपपाठः आदादिकस्य शमधातोरभावात् । शाम्यतीति पाठो बृहत्- संहितायाम् । प्रसङ्गादत्र दिव्याद्यद्भुतमधिकृत्य मत्स्यपुराणे यदुक्तं तदुद्ध्रियते— ग्रहर्क्षवैकृतं दिव्यमान्तरिक्षं निबोध मे । उल्कापातो दिशां दाहः परिवेषस्तथैव च ॥ गन्धर्वनगरञ्चैव वृष्टिश्च विकृता तु या । एवमादीनि लोकेऽस्मिन्नान्तरिक्षं विनिर्दिशेत् ॥ चरस्थिरभवो भौमो भूकम्पश्चापि भूमिजः । जलाशयानां वैकृत्यं भौमं तदपि कीर्त्तितम् ॥ इति । (अ० २२९, ६-९ श्लो० ) ४१ । एवं दिव्यस्य शाम्यत्वाशाम्यत्वे विकल्प्य सम्प्रति स्वमतमाह—दिव्यमपीति । अत्रापिः सम्भावनायाम् इत्यहं सम्भावयामीत्यर्थः । यद्वापिः समुच्चये, प्रभूततत्तद्द्रव्यदानैर्न केवलं भौमं नाभसञ्च शान्तिमुपैति परं दिव्यमपि शान्तिमुपैतीत्यर्थः । रुद्रायतन इति शिवालये । 'भूमेर्गोर्दानादि'त्यपपाठः पूर्वं गोमहीदानस्योक्तत्वात् । यद्वा पूर्वं स्थानानियमेन प्रभूतगवादिदानव्यवस्था कृता, परतश्च स्थानविशेषे अल्पाया अपि भूमे- रेकस्या अपि गोर्दानमभिहितमिति पूर्वार्द्धे प्रभूतपदोपादानादपरार्द्धे भूमेरिति गोरिति चैकवचनो- पादानादवगम्यते । 'रुद्रायतने भूमौ गोदोहादि'ति पाठो बृहत्संहितासम्मतः । 'भूमौ गोदोहश्च पात्रं विना भूमौ गोः स्तनं निष्पीड्य दुग्धोत्सर्ग' इति शब्दकल्पद्रुमः ।