रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 116, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः ३६ [ दैवोत्पाते राज्ञो विशेषः ] आत्मसुतकोशवाहनपुरदारपुरोहितेषु लोके च । पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः ॥ ४२ ॥ [ लिङ्गादिवैकृतं तत्फलञ्च ] अनिमित्तचलनभङ्ग-स्वेदाश्रुनिपातजल्पनाद्यानि । लिङ्गार्चायतनानां नाशाय नरेशदेशानाम् ॥ ४३ ॥ ४२। अत्र दैवोत्पाते राज्ञः फलस्य व्यापकतामाह-आत्मति । यद्वा येऽत्र प्रकरणे उक्तास्तेषां राजन्येव फलपाक इति स्थिते तत्सम्बन्धितया के के फलभागिनः स्युरित्यपेक्षायामाह- आत्मति । कस्योत्पातस्य कुत्र कीदृशः फलपाके इत्युपरिष्टाद् वक्ष्यते । नृपतेरिति सर्वत्र सम्बध्यते । तथा च नृपतेरात्मनि शरीरे सुते पुत्रे कोषे धनागारे वाहनेषु हस्त्यश्वादिषु पुरे नगरे दारेषु भार्यासु पुरोहिते आचार्ये लोके प्रजासु चेत्यष्टधा अष्टप्रकारेण परिकल्पितं दैवमद्भुतं पाकं याति फलं ददाति । ‘लोके जनपदे’ इत्युत्पलभट्टः (अ० ४९, ७ श्लो०) । व्यक्तमाह मत्स्यपुराणे- राज्ञः शरीरे लोके च पुरदारे पुरोहिते । पाकमायाति पुत्रेषु तथा वै कोशवाहने ॥ (अ० २२९, १३ श्लो०) अत्र दैवोत्पात एवायं राज्ञः फलविशेष उक्तः, पूर्वोक्तमत्स्यपुराणवचने तु एवंविधफलस्यौत- पातसाधारण्यमिति विशेषः । एतेन प्राकृतजनविषय उत्पातः प्रातिस्विकफल इत्यवधेयम् । ४३ । चरस्थिरभवमिति यत् स्थिरस्य चरधर्माक्रान्तिलक्षणं भौममद्भुतम् उत्पलभट्टव्याख्या- स्वरसात् पूर्वमुक्तं तदेव विव्रियते-अनिमित्तेत्यादिना । अथवाऽन्यदेवेदं पूर्वोक्तेभ्य उत्पातेभ्यो लिङ्गादि वैकृतं नामेति तदाह-अनिमित्तेत्यादिना लिङ्गं शैवम् अर्चा देवप्रतिमा आयतनं सिद्धं देवस्थानम् एषाम् अनिमित्तं चलनादिप्रयोजकवाय्वभिघातादिकारणं विनेत्यर्थः । चलनं कम्पः, निपातः पतनम्, जल्पनम् असम्बद्धोक्तिः । आद्यग्रहणाद् वमनं प्रसर्पणञ्चेत्युत्पलभट्टः । एतानि नरेशस्य राज्ञः देशस्य जनपदस्य च नाशाय भवन्ति । यद्यपि 'द्वन्द्वात् पूर्वं परं वा यच्छ्रूयते तल्लभते प्रत्येकमभिसम्बन्धमि'ति न्यायाद् द्वन्द्वस्थ- चलनादिसर्वपदार्थैः सहैवानिमित्तमित्यस्यान्ययो न्याय्यस्तथापि सामर्थ्याच्चलनभङ्गनिपातैरेवा- न्वयो न त्वितरैरपि, तेषां तदन्वयेऽसामर्थ्यात्, न ह्यस्ति कारणं लिङ्गादीनां स्वेदाश्रुजल्पनेषु किमपि, येन तद्व्यावृत्तये अनिमित्ततया तानि विशेष्येरन्नित्यवधेयम् ।