भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 117, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 117

३० देवतामूर्त्तिप्रकरणम् [ तत्र विशेषः ] स्वदेशध्वंसस्फोटे भवेत्तथा... ... ... । स्थानाच्चलने भङ्गं देशस्य विनिर्दिशेत् प्राज्ञः ॥ ४४ ॥ [ अर्चावैकृतं तत्फलञ्च ] नर्त्तनं जल्पनं हास्यमुन्मीलननिमीलने । देवा यत्र प्रकुर्वन्ति तत्र विद्यान्महद् भयम् ॥ ४५ ॥ रोदने नर्तने हास्ये देवतानां प्रसर्पणे । महद् भयं विजानीयात् षण्मासत्रि(सात्त्रि?)गुणं परम् ॥४६॥ धूमज्वालां रजो भस्म यदा मुञ्चन्ति देवताः । राजा तदा च म्रियते प्रसूते च धनक्षयम् ॥४७॥ ४४ । 'नाशाय नरदेशानामि'त्युक्तम्, इदानीं केन कस्य नाश इति विषयविभागमाह— स्वदेशेत्यादि। स्फोटे भङ्गे स्वदेशध्वंसो भवेत्। अत्र लेखकप्रमादाद् ग्रन्थस्य कियांश्चन भागः पतितः। ४५। नर्त्तनमिति। उन्मीलनं नेत्रप्रसारणम्, निमीलनं नेत्रसङ्कोचः, यद्वा अङ्गानाम् आकुञ्चनप्रसारणे। ४६। रोदन इति। षण्मासत्रिगुणमिति। शान्तौ अकृतायां षण्मासात् परं भयं त्रिगुणं भवेदित्यर्थः, तथा च 'षण्मासात् त्रिगुण'मिति शुद्धः पाठः। एतच्चिन्त्यम्,—एतेषामुत्पातानाम् अष्टसु मासेष्वतीतेषु फलपाकश्रवणात् कथं षट्सु मासेष्वतीतेष्वेव भयानां त्रैगुण्यं सम्भवदुक्तिकं स्यात् । तथा च बृहत्संहितायाम्— “मासैश्चाप्यष्टभिः सर्वेषामेव फलपाकः” । इति । (अ० ४५, १४ श्लो०) एवञ्च इदमत्र कथञ्चित् समाधानम्—अत्र सङ्कोचवृत्त्या सर्वशब्दस्य देवतार्चाकृतोत्- पातेतरपरत्वाभ्युपगमात् तथाविधोत्पातस्य सद्यःफलदत्वेन 'षण्मासात् त्रिगुणं परमि'ति सङ्गच्छते । अत्रेदं श्लोकद्वयं प्रायेण समानार्थकमिति स्थूणानिखननन्यायेन वा, पूर्वत्र भयस्य देश- विषयकत्वाङ्गीकारादुत्तरत्र च राजविषयकत्वाङ्गीकाराद्वा कथञ्चित् पौनरुक्त्यनिरासः कर्त्तव्यः । ४७। धूमज्वालामिति। धूमं ज्वालाञ्चेत्यर्थः। ज्वाला चाग्निशिखा। तदेतत् सर्वं सविशेषमाह मत्स्यपुराणे—

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक) · पृष्ठ 117, कुल 335 में से · BharatKosha