रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 128, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः ४१ देवादित्रिकूट( गण- )विचार :— गणस्त्रिविधः, देवगणः, नरगणः, राक्षसगणश्च । जन्मनक्षत्रेण जातकस्य गणो निरूप्यते । तद् यथा— हस्ता, स्वाती, मृगशिराः, अश्विनी, श्रवणा, पुष्या, रेवती, अनुराधा, पुनर्वसुः । एषु जातो देवगणः । आर्द्रा, रोहिणी, उत्तरफल्गुनी, उत्तराषाढा, उत्तरभाद्रपदम्, भरणी, पूर्वफल्गुनी, पूर्वाषाढा पूर्वभाद्रपदम् । एषु जातो नरगणः । ज्येष्ठा, अश्लेषा, विशाखा, मूला, शतभिषा, धनिष्ठा, कृत्तिका, चित्रा, मघा । एषु जातो राक्षसगणः । यस्मिन् नक्षत्रे प्रतिमा निर्मीयते तत् प्रतिमाया जन्मनक्षत्रम् । तेन च नक्षत्रेण प्रतिमाया गणनिरूपणं स्यात् । कर्मकर्तृगणेन सह प्रतिमागणमिलनदिवसे प्रतिमाघटनं कुर्यात् । मिलनञ्च वक्ष्यमाणरीत्या ज्ञेयम् । गणशुभाशुभकथनम् स्वजातौ परमा प्रीतिर्मध्यमा देवमानुषे । देवासुरे विरोधश्च मृत्युर्मानुषराक्षसे ॥ इति देवता—६