भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 129, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 129

द्वितीयोऽध्यायः [ माननिर्णयः ] छाया रेणु(श्र?) बालाग्र-लिख्षा-यूका यवोऽङ्गुलः । क्रमाद्दशगुणं मानं ज(जि?)नसंख्यैः करा(रोऽ?)ङ्गुलैः ॥१॥ १ । छायेति । एतेषां छायाद्यङ्गुलान्तानां सप्तानां पदार्थानां यथोत्तरं दशगुणं मानमित्यर्थः । तथा च—छायाया दशगुणं रेणोर्मानम्, रेणोर्दशगुणं बालाग्रस्य केशकोटेर्मानम्, ततो दशगुणं लिक्षस्य, ततो दशगुणं यूकस्य, ततो दशगुणं यवस्य, ततो दशगुणञ्चाङ्गुलस्य मानमिति स्पष्टार्थः । अत्र छायापदार्थनिर्णयो दुष्करः, कापि तादृशार्थकपाठानुपलब्धेः । बृहत्संहितायाम्— परमाणुरजोबालाग्रलिक्षयूकं यवोऽङ्गुलं चेति । अष्टगुणानि यथोत्तरमङ्गुलमेकं भवति संख्या ॥ ( अ० ५७, २ श्लो० ) इति छायास्थाने परमाणुपदमाह । अन्यत्र परमाणुस्वरूपमुक्तम्— जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः । प्रथमं तत् प्रमाणानां परमाणुं प्रचक्षते ॥ इति । तस्मादत्र छायापदं परमाणुसमानार्थकमिति प्रतीमः । रेणुश्चान्यत्र रजःपदेन व्यपदिष्टस्त्रस- रेणुरूपः । तथा च शिल्परत्नपूर्वभागे मानमधिकृत्य— परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः । त्रसरेणुरष्टभिः स्यात्तैरेव परमाणुभिः ॥ तदष्टभिस्तु बालाग्रं लीक्षा बालाग्रकाष्टभिः । इति ( अ० २, १-२ श्लो० ) एतदपि स्मृत्यन्तरविरुद्धम्, 'अणुद्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः' ( स्क-३, अ० ११, श्लो० ५ ) इति भागवतीयात् । यव इति यवोदरम् ; तथा च शब्दकल्पद्रुमधृत-लीलावत्याम्— 'यवोदरैरङ्गुलमष्टसंख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । इति । शिल्परत्नपूर्वभागेऽपि 'यवोदरैः षड्गुणैर्वा' इत्युक्तम् । शब्दकल्पद्रुमे तिथ्यादितत्त्वधृत- कालिकापुराणमपि— यवानां तण्डुलैरेवमङ्गुलं चाष्टभिर्भवेत् । अदीर्घयोजितैः ... ... ॥ इत्याह ।