रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 130, कुल 335 में से
संदर्भ में पढ़ेंक्रमाद्दशगुणमिति । एतच्चिन्त्यम्, पूर्वोद्धृतबृहत्संहितादिवचनेष्वष्टभिः परमाणुभी रज इत्यादिक्रमेणाष्टगुणवृद्धेरेव श्रवणात् । शिल्परत्नपूर्वभागे— यवोदरैः षड्गुणैर्वा सप्तभिर्वाऽधमादिकम् । क्रमादष्टगुणैर्वाऽथ मानाङ्गुलमिति स्मृतम् ॥ (अ० २, ३ श्लो०) इति मानविकल्पमुपदर्शयताऽपि तद्ग्रन्थकृता दशगुणस्यानुल्लेखात् । एतेनैतन्मतसम्मतश्चतुर्विंश- त्यङ्गुलकः करः क्रमादष्टगुणमानस्वीकर्तृ मते षडङ्गुलेनाधिको भवतीति ज्ञेयम् । तथा च एकस्मि- न्नङ्गुले यवद्वयवृद्ध्या चतुर्विंशत्यामङ्गुलेषु अष्टचत्वारिंशद्यववृद्धिनियता, ते चाष्टचत्वारिंशद् यवाः षडङ्गुलम् इति तेन सह मिलनात्त्रिंशदङ्गुलः करो भवति । सत्यपि प्रकारविरोधे नेदमपि करमानमप्रमाणम्, तथा च शिल्परत्नपूर्वभागे— अङ्गुलत्रितया मुष्टिर्वितस्तिर्द्वादशाङ्गुलिः । तद्द्वयं हस्तमुद्दिष्टं तच्च किष्कुरिति स्मृतम् । एकैकाङ्गुलवृद्ध्याऽतो भवन्त्यष्टौ कराः स्फुटम् ॥ प्राजापत्यं धनुर्मुष्टिश्चाप्रग्रहमतः परम् । प्राच्यां वैदेहकं नाम्ना वैपुल्यञ्च प्रकीर्त्तितम् । इत्थमेकोत्तरत्रिंशदङ्गुलान्ताः कराः स्मृताः ॥ (अ० २, ९-११ श्लो०) इत्येकत्रिंशदङ्गुलान्तमपि करमाह । तस्मान्मतान्तरमिदम् इति ज्ञेयम् । जिनसंख्यैरिति । जिनाश्चतुर्विंशतिः, चतुर्विंशत्याऽङ्गुलैः करो हस्त इत्यर्थः । तथा च बृहत्संहितायाम् (अ० ५७, २ श्लो०) उत्पलभट्टधृतवचनम्— तस्माद् रजः कचाग्रञ्च लिक्षा यूका यवोऽङ्गुलम् । क्रमादष्टगुणं ज्ञेयं जिनसंख्याङ्गुलैः करः ॥ इति । तस्मादिति परमाणोः, तस्यैव तत्र प्रकृतत्वात् । अङ्गुलस्य च मानाङ्गुलं मात्राङ्गुलम् इति द्वौ भेदौ । अधस्ताद् यदुक्तं तन्मानाङ्गुलम् । मात्राङ्गुलमुक्तं शिल्परत्नपूर्वभागे— तज्जन्तुर्दक्षिणकरमध्यमामध्यपर्वणः । दैर्घ्यं मात्राङ्गुलं श्रेष्ठं नीचं तद्व्याससम्मितम् ॥ इति (अ० २, ८ श्लो०) अस्यार्थः—कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलेर्मध्यपर्वणो यद् दैर्घ्यं तच्छ्रेष्ठं मात्राङ्गुलम्, तस्यैव मध्यपर्वणो विस्तारसम्मितञ्च कनिष्ठं मात्राङ्गुलम् इति । अनयोश्च कर्मभेदे विनियोगभेदमाह तत्रैव— मानाङ्गुलैः केवलमेव कुर्याद् देवालयादीनि गृहाणि वा नृणाम् । कुण्डादिकानामथ मण्डलानां सर्वत्र मात्राङ्गुलमिष्यते बुधैः ॥ इति (अ० २,१७ श्लो०) अत्र 'देवालयादीनि' इत्यादिपदाद्देवप्रतिमानामपि ग्रहणम् । काश्यपशिल्पेऽपि— 'मानाङ्गुलन्तु वा प्रोक्तं पुरप्रासादमानकम्' (अ० ५०, ३७ श्लो०) इत्युक्तम् ।