भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 134, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 134

द्वितीयोऽध्यायः ४७ कुब्जाश्च पञ्चभिस्तालैरुपविष्टो जनस्तथा । उपविष्टाः प्रकर्तव्या ब्रह्मविष्णुशिवा वृषः ॥ ५ ॥ शूकरं पञ्चतालैश्च षट्तालं स्याद् विनायकम् । मध्यमं शूकरं ज्ञेयं वृषभश्च तथैव हि । मनुजाः सप्तभिस्तालैर्वृषभं शूकरन्तथा ॥ ६ ॥ अष्टाभिः पार्वती प्रोक्ता मातरश्च तथैव हि । दुर्गा लीला महालक्ष्मील(र्ल?)दमीर्या तु सरस्वती ॥७॥ कालिन्दी चैव सावित्री नदा(नन्दा?) पद्मावती तथा । कात्यायनी समाख्याता भगवत्यष्टकाल(ताल?)का ॥८॥ नवतालैर्भवेद् विष्णुर्ब्रह्मात्मा देवतास्तथा । कर्मणि प्रत्ययस्यैव स्वारसिकत्वेन 'कीर्त्तिमुखस्तालमुखो' इति पाठस्यैव मान्यत्वात्। एवमिहाहमहमिकयैव बिन्दुविसर्गयोर्व्यत्ययस्तत्र तत्र समुल्लसन् पाठकः स्वयं विचार्यः। रूपमण्डने तालमधिकृत्य- 'ग्रासवक्त्रमेकभागे द्वौ पक्षी कुञ्जराद्ययः' इत्येतत्समानार्थं पद्यमाह। अत्र कियद्भिस्तालैः के के कर्त्तव्या इत्यत्र शिल्पशास्त्रकृतां बहवो मतभेदा दृश्यन्ते, ते च प्रभूत- स्थानसव्यपेक्षा इति सर्वमनुद्धृत्याष्टतालत एकतालान्ता विलोमेन काश्यपशिल्पादुद्ध्रियन्ते, एतेषामेवान्नाधिक्येनोपयोगित्वात्। अत्र चादर्शप्राप्तमशुद्धं पाठमपहाय सम्पादकैः कृतशुद्धयः पाठा उद्ध्रियन्ते— अष्टतालेन साध्यांस्तु पिशाचाः सप्तमेन तु । रसतालेन कुब्जांस्तु कारयेद्देशिकोत्तमः ॥ पञ्चतालोक्तमानेन वित्तेशं कारयेद् बुधः । तन्मध्यमाधमेनैव सर्वभूतगणान् कुरु ॥ बालन्तु वेदतालेन त्रितालेनैव कारयेत् । द्वितालं किन्नरञ्चैव एकतालन्तु कूर्मकम् ॥ इति । (अ० ६०, ८७-८९ श्लो०) ६। मध्यममिति । प्रथमार्द्धे पञ्चतालकर्त्तव्यत्वेन यः शूकर उद्दिष्टः स मध्यम इति ज्ञेयः नोत्तमो नापि वाऽधमः। एवं तृतीयार्द्धे सप्ततालकर्त्तव्यत्वेन यो वृषभ उद्दिष्टः सोऽपि मध्यम एवेत्यर्थः । सप्ततालकर्त्तव्यस्तृतीयशूकरश्च मध्यमेतर इति व्याख्येयम्, अन्यथा पौनरुक्त्यापत्तेः । वृषभशूकरयोः साप्ततालिकत्वकथनं मतान्तरेणेति ज्ञेयम् ।