रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 134, कुल 335 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः ४७ कुब्जाश्च पञ्चभिस्तालैरुपविष्टो जनस्तथा । उपविष्टाः प्रकर्तव्या ब्रह्मविष्णुशिवा वृषः ॥ ५ ॥ शूकरं पञ्चतालैश्च षट्तालं स्याद् विनायकम् । मध्यमं शूकरं ज्ञेयं वृषभश्च तथैव हि । मनुजाः सप्तभिस्तालैर्वृषभं शूकरन्तथा ॥ ६ ॥ अष्टाभिः पार्वती प्रोक्ता मातरश्च तथैव हि । दुर्गा लीला महालक्ष्मील(र्ल?)दमीर्या तु सरस्वती ॥७॥ कालिन्दी चैव सावित्री नदा(नन्दा?) पद्मावती तथा । कात्यायनी समाख्याता भगवत्यष्टकाल(ताल?)का ॥८॥ नवतालैर्भवेद् विष्णुर्ब्रह्मात्मा देवतास्तथा । कर्मणि प्रत्ययस्यैव स्वारसिकत्वेन 'कीर्त्तिमुखस्तालमुखो' इति पाठस्यैव मान्यत्वात्। एवमिहाहमहमिकयैव बिन्दुविसर्गयोर्व्यत्ययस्तत्र तत्र समुल्लसन् पाठकः स्वयं विचार्यः। रूपमण्डने तालमधिकृत्य- 'ग्रासवक्त्रमेकभागे द्वौ पक्षी कुञ्जराद्ययः' इत्येतत्समानार्थं पद्यमाह। अत्र कियद्भिस्तालैः के के कर्त्तव्या इत्यत्र शिल्पशास्त्रकृतां बहवो मतभेदा दृश्यन्ते, ते च प्रभूत- स्थानसव्यपेक्षा इति सर्वमनुद्धृत्याष्टतालत एकतालान्ता विलोमेन काश्यपशिल्पादुद्ध्रियन्ते, एतेषामेवान्नाधिक्येनोपयोगित्वात्। अत्र चादर्शप्राप्तमशुद्धं पाठमपहाय सम्पादकैः कृतशुद्धयः पाठा उद्ध्रियन्ते— अष्टतालेन साध्यांस्तु पिशाचाः सप्तमेन तु । रसतालेन कुब्जांस्तु कारयेद्देशिकोत्तमः ॥ पञ्चतालोक्तमानेन वित्तेशं कारयेद् बुधः । तन्मध्यमाधमेनैव सर्वभूतगणान् कुरु ॥ बालन्तु वेदतालेन त्रितालेनैव कारयेत् । द्वितालं किन्नरञ्चैव एकतालन्तु कूर्मकम् ॥ इति । (अ० ६०, ८७-८९ श्लो०) ६। मध्यममिति । प्रथमार्द्धे पञ्चतालकर्त्तव्यत्वेन यः शूकर उद्दिष्टः स मध्यम इति ज्ञेयः नोत्तमो नापि वाऽधमः। एवं तृतीयार्द्धे सप्ततालकर्त्तव्यत्वेन यो वृषभ उद्दिष्टः सोऽपि मध्यम एवेत्यर्थः । सप्ततालकर्त्तव्यस्तृतीयशूकरश्च मध्यमेतर इति व्याख्येयम्, अन्यथा पौनरुक्त्यापत्तेः । वृषभशूकरयोः साप्ततालिकत्वकथनं मतान्तरेणेति ज्ञेयम् ।