रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 135, कुल 335 में से
संदर्भ में पढ़ें४८ देवतामूर्तिप्रकरणम् दशतालैर्भवेद्रामो बलिवैरोचन(नि?)स्तथा । सिद्धाश्चैव जितेन्द्राश्च ऊर्द्वांस्ते च प्रकीर्तिताः ॥ ९ ॥ ताला एकादश स्कन्दो हनुमांश्चण्डिका तथा । भूतानाञ्च समस्तानामेष तालः प्रकीर्तितः ॥ १० ॥ ताला द्वादश वेताला राक्षसाश्च त्रयोदश । पिशाचाः क्रूरकर्माणः शस्यन्ते मुकुटैर्विना ॥ ११ ॥ तालाश्चतुर्दश प्रोक्ता दैत्येन्द्रा मुकुटैर्युताः । तिथ्या समानतालैश्च भृगुरूपं प्रकारयेत् ॥ १२ ॥ अत ऊर्ध्वं न कर्तव्यं प्रमाणं कथयाम्यतः । [ तालानुसारेणावयवमानम्, तत्र सप्ततालेऽवयवमाननिरूपणम् ] सप्ततालं प्रवक्ष्यामि केशान्ते च त्रिमात्रकम् ॥ १३ ॥ १०–१२। एकादशादिपञ्चदशान्तास्ताला नान्यत्रोपलभ्यन्ते । रूपमण्डने तु— 'कलांशाः क्रूरदेवाः स्युरत ऊर्ध्वं न कारयेत्' । ( अ० १, २३ श्लो० ) इत्यनेन षोडश तालाः क्रूरदेवानां मानमित्युक्तम् । यच्च काश्यपशिल्पे— एकादिनवहस्तान्तं नवधा हस्तमानकम् । तालादिनवतालान्तं तथा नवविधं भवेत् ॥ ( अ० ५०, ३४ श्लो० ) इति नवतालान्तं तालमानमुक्तं तत्तु सामान्यत इति ज्ञेयम् । एवञ्च सत्यामपि पूर्वार्द्धे हस्त- मानस्य नवधात्वोक्तौ यत् पूर्वम्— दशादिकरवृद्ध्या तु षट्त्रिंशत् प्रतिमाः पृथक् । बाणवेदकरान् यावच्चतुष्क्यां पूजयेत् सुधीः ॥ ( अ० १, १९ श्लो० ) इत्युक्तम्, तस्यापि विशेषान्तःपातान्नासामञ्जस्यमिति ध्येयम् । १३। इदानीं कियत्तालानां प्रतिमानां कियन्त्यङ्गमानानीति वक्तुमादौ सप्ततालप्रतिमाया अङ्गमानमाह—सप्ततालमिति । रूपमण्डने तु षट्तालप्रतिमाया अप्यङ्गविभाग उक्तः ; तथा च— मुखं तालद्वयं तस्य जठरं तत्समं भवेत् । गुह्यं वेदाङ्गुलम् ऊरू सप्त जङ्घा च तत्समा ॥