रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 136, कुल 335 में से
संदर्भ में पढ़ेंद्वितीयोग्ध्यायः ४१ वक्त्रं तालप्रमाणञ्च ग्रीवा स्यादङ्गुलद्वयम्। सार्द्धसप्ताङ्गुलं वक्षो मध्यं नवभिरङ्गुलैः ॥ १४ ॥ सप्तसार्द्धं( ?)नाभिमेढ्रमूरू अष्टादश स्मृताः। जान्वङ्गुलद्वयं प्रोक्तं जङ्घे अष्टादशाङ्गुले । पादोत्सेधन्वि(स्त्रि ?)मात्रन्तु(स्तु ?) मनुजाः सप्ततालये(के ?)॥१५॥ [ मध्यमसप्ततालेऽवयवमाननिरूपणम् ] सप्तसार्द्धं प्रवक्ष्यामि तालं मङ्गल-शुक्रयोः । बुधसौर्योस्तथा ज्ञेयं केशान्तञ्च त्रिमात्रकम् ॥ १६ ॥ वक्त्रं द्वादशमात्रन्तु ग्रीवा चैव त्रिमात्र(त्रि ?)का । दशमात्रं भवेद् वक्षो नाभिमेढ्रं तथोदरम् ॥ १७ ॥ अष्टादश भवेदूरू(रुः ?) जानु मात्राद्वयं स्मृतम् । अष्टादशाङ्गुलौ ग्रन्थी ग्रहाणामङ्गुलो पदौ ॥ १८ ॥ [ अष्टतालेऽवयवमानम् ] अष्टतालं प्रवक्ष्यामि देव्याश्चण्डस्य(ण्ड्याश्च ?) लक्षणम् । मात्रात्रयं स्यात् केशान्तं वक्त्रञ्च द्वादशाङ्गुलम् ॥ १९ ॥ ग्रीवा च अ(त्र्य ?)ङ्गुला कार्या हृदयं नवभिस्तथा । मध्यं द्वादशमात्रं स्यान्नाभिमेढ्रे नवाङ्गुले ॥ २० ॥ एकविंशद् भवेदूरू(रुः ?) जानु चैव गुणाङ्गुलम् । जङ्घाऽङ्गुलैकविंशत्या पादमूलं गुणाङ्गुलम् ॥ २१ ॥ गुणाङ्गुलं भवेज्जानु पादः कार्यो गुणाङ्गुलः । रसतालमिति प्रोक्तम्............ ॥ इति ( अ० १, २४-२५ श्लो० ) शिल्परत्नोत्तरभागे च दशादिवितस्ततालान्तप्रतिमाया अङ्गविभागः प्रदर्शित इति विशेषः । १६ । सप्तसार्द्धमिति मध्यमसप्ततालमित्यर्थः ; तत्प्रमाणञ्चैतन्मते नवत्यङ्गुलम्, मतान्तरे त्वष्टाशीत्यङ्गुलमिति ज्ञेयम् । प्रकरणेऽस्मिन् मात्राभागादिशब्दोऽङ्गुलमानबोधकः । देवता-७